🪷 Mahābhārata · Śānti-Parva · Chapter 109

The Book of Peace · the great dharma-śāstra · Parva 12 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 12.109.1
युधिष्ठिर उवाच महानयं धर्मपथो बहुशाखश्च भारत किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम्
MBh 12.109.2
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात्
MBh 12.109.3
भीष्म उवाच मातापित्रोर्गुरूणां च पूजा बहुमता मम अत्र युक्तो नरो लोकान्यशश्च महदश्नुते
MBh 12.109.4
यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर
MBh 12.109.5
न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः
MBh 12.109.6
एत एव त्रयो लोका एत एवाश्रमास्त्रयः एत एव त्रयो वेदा एत एव त्रयोऽग्नयः
MBh 12.109.7
पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः गुरुराहवनीयस्तु साग्नित्रेता गरीयसी
MBh 12.109.8
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि
MBh 12.109.9
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्
MBh 12.109.10
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप
MBh 12.109.11
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः
MBh 12.109.12
नैवायं न परो लोकस्तस्य चैव परंतप अमानिता नित्यमेव यस्यैते गुरवस्त्रयः
MBh 12.109.13
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते न चान्यदपि कल्याणं पारत्रं समुदाहृतम्
MBh 12.109.14
तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् तदासीन्मे शतगुणं सहस्रगुणमेव च तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर
MBh 12.109.15
दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते दशाचार्यानुपाध्याय उपाध्यायान्पिता दश
MBh 12.109.16
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः
MBh 12.109.17
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः शरीरमेतौ सृजतः पिता माता च भारत आचार्यशिष्टा या जातिः सा दिव्या साजरामरा
MBh 12.109.18
अवध्या हि सदा माता पिता चाप्यपकारिणौ न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् धर्माय यतमानानां विदुर्देवाः सहर्षिभिः
MBh 12.109.19
य आवृणोत्यवितथेन कर्णा;वृतं ब्रुवन्नमृतं संप्रयच्छन् तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन्
MBh 12.109.20
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा यथैव ते गुरुभिर्भावनीया;स्तथा तेषां गुरवोऽप्यर्चनीयाः
MBh 12.109.21
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता
MBh 12.109.22
येन प्रीताश्च पितरस्तेन प्रीतः पितामहः प्रीणाति मातरं येन पृथिवी तेन पूजिता
MBh 12.109.23
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह
MBh 12.109.24
न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् न च माता न च पिता तादृशो यादृशो गुरुः
MBh 12.109.25
न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः
MBh 12.109.26
उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान्नान्यः पापकृदस्ति लोके
MBh 12.109.27
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः
MBh 12.109.28
एतत्सर्वमतिदेशेन सृष्टं; यत्कर्तव्यं पुरुषेणेह लोके एतच्छ्रेयो नान्यदस्माद्विशिष्टं; सर्वान्धर्माननुसृत्यैतदुक्तम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.109local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷