🪷 Mahābhārata · Śānti-Parva · Chapter 108
The Book of Peace · the great dharma-śāstra · Parva 12 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 31 Shlokas
MBh 12.108.1
युधिष्ठिर उवाच
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च
MBh 12.108.2
राज्ञां वृत्तं च कोशश्च कोशसंजननं महत्
अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम्
MBh 12.108.3
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम्
MBh 12.108.4
समहीनाधिकानां च यथावल्लक्षणोच्चयः
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता
MBh 12.108.5
क्षीणसंग्रहवृत्तिश्च यथावत्संप्रकीर्तिता
लघुनादेशरूपेण ग्रन्थयोगेन भारत
MBh 12.108.6
विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर
MBh 12.108.7
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत
अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च
MBh 12.108.8
भेदमूलो विनाशो हि गणानामुपलभ्यते
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः
MBh 12.108.9
एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप
यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव
MBh 12.108.10
भीष्म उवाच
गणानां च कुलानां च राज्ञां च भरतर्षभ
वैरसंदीपनावेतौ लोभामर्षौ जनाधिप
MBh 12.108.11
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्
तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ
MBh 12.108.12
चारमन्त्रबलादानैः सामदानविभेदनैः
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम्
MBh 12.108.13
तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्
MBh 12.108.14
भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः
तस्मात्संघातयोगेषु प्रयतेरन्गणाः सदा
MBh 12.108.15
अर्था ह्येवाधिगम्यन्ते संघातबलपौरुषात्
बाह्याश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु
MBh 12.108.16
ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम्
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः
MBh 12.108.17
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः
यथावत्संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः
MBh 12.108.18
पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः
MBh 12.108.19
चारमन्त्रविधानेषु कोशसंनिचयेषु च
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः
MBh 12.108.20
प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान्
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप
MBh 12.108.21
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः
कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते
MBh 12.108.22
क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः
नयन्त्यरिवशं सद्यो गणान्भरतसत्तम
MBh 12.108.23
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव
MBh 12.108.24
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत
MBh 12.108.25
गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः
पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च
MBh 12.108.26
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः
MBh 12.108.27
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः
गोत्रस्य राजन्कुर्वन्ति गणसंभेदकारिकाम्
MBh 12.108.28
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम्
अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति
MBh 12.108.29
अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात्
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्
MBh 12.108.30
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः
MBh 12.108.31
भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः
तस्मात्संघातमेवाहुर्गणानां शरणं महत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 107
- Next chapter · Śānti-Parva Ch 109 →
Sources and Connected Readings
Continue from these 31 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.108local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷