🪷 Mahābhārata · Śānti-Parva · Chapter 107

The Book of Peace · the great dharma-śāstra · Parva 12 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 12.107.1
राजपुत्र उवाच न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्
MBh 12.107.2
पुरस्तादेव भगवन्मयैतदपवर्जितम् येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत्
MBh 12.107.3
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते
MBh 12.107.4
मुनिरुवाच उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन
MBh 12.107.5
उभयोरेव वामर्थे यतिष्ये तव तस्य च संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्
MBh 12.107.6
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्
MBh 12.107.7
यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्
MBh 12.107.8
आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्
MBh 12.107.9
भीष्म उवाच तत आहूय वैदेहं मुनिर्वचनमब्रवीत् अयं राजकुले जातो विदिताभ्यन्तरो मम
MBh 12.107.10
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः
MBh 12.107.11
तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि न राज्यमनमात्येन शक्यं शास्तुममित्रहन्
MBh 12.107.12
अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी
MBh 12.107.13
कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्
MBh 12.107.14
यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे
MBh 12.107.15
त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः
MBh 12.107.16
स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसांप्रतम् न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि
MBh 12.107.17
नैव नित्यं जयस्तात नैव नित्यं पराजयः तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः
MBh 12.107.18
आत्मन्येव हि संदृश्यावुभौ जयपराजयौ निःशेषकारिणां तात निःशेषकरणाद्भयम्
MBh 12.107.19
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च
MBh 12.107.20
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत्
MBh 12.107.21
तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा
MBh 12.107.22
ततः कौसल्यमाहूय वैदेहो वाक्यमब्रवीत् धर्मतो नीतितश्चैव बलेन च जितो मया
MBh 12.107.23
सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम आत्मानमनवज्ञाय जितवद्वर्ततां भवान्
MBh 12.107.24
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् नावमन्ये जयामीति जितवद्वर्ततां भवान्
MBh 12.107.25
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्
MBh 12.107.26
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्
MBh 12.107.27
ददौ दुहितरं चास्मै रत्नानि विविधानि च एष राज्ञां परो धर्मः सह्यौ जयपराजयौ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.107local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷