🪷 Mahābhārata · Śānti-Parva · Chapter 106
The Book of Peace · the great dharma-śāstra · Parva 12 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 12.106.1
मुनिरुवाच
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि
ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये
MBh 12.106.2
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः
MBh 12.106.3
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते
MBh 12.106.4
राजपुत्र उवाच
ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो
अमोघमिदमद्यास्तु त्वया सह समागतम्
MBh 12.106.5
मुनिरुवाच
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः
MBh 12.106.6
तमुत्तमेन शौचेन कर्मणा चाभिराधय
दातुमर्हति ते वृत्तिं वैदेहः सत्यसंगरः
MBh 12.106.7
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन्
MBh 12.106.8
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः
MBh 12.106.9
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत्
MBh 12.106.10
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्
अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय
परैर्वा संविदं कृत्वा बलमप्यस्य घातय
MBh 12.106.11
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च
शय्यासनानि यानानि महार्हाणि गृहाणि च
MBh 12.106.12
पक्षिणो मृगजातानि रसा गन्धाः फलानि च
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः
MBh 12.106.13
यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति
न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता
MBh 12.106.14
वसस्व परमामित्रविषये प्राज्ञसंमते
भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः
MBh 12.106.15
आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय
नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम्
MBh 12.106.16
उद्यानानि महार्हाणि शयनान्यासनानि च
प्रतिभोगसुखेनैव कोशमस्य विरेचय
MBh 12.106.17
यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम्
ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव
MBh 12.106.18
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति
MBh 12.106.19
उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च
बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः
MBh 12.106.20
निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय
असंशयं दैवपरः क्षिप्रमेव विनश्यति
MBh 12.106.21
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्
ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम्
MBh 12.106.22
त्यागधर्मविदं मुण्डं कंचिदस्योपवर्णय
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्
MBh 12.106.23
सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना
नागानश्वान्मनुष्यांश्च कृतकैरुपघातय
MBh 12.106.24
एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः
शक्या विषहता कर्तुं नक्लीबेन नृपात्मज
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 105
- Next chapter · Śānti-Parva Ch 107 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.106local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷