🪷 Mahābhārata · Śānti-Parva · Chapter 105
The Book of Peace · the great dharma-śāstra · Parva 12 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 53 Shlokas
MBh 12.105.1
युधिष्ठिर उवाच
धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत्
MBh 12.105.2
भीष्म उवाच
अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते
तत्तेऽहं संप्रवक्ष्यामि तन्निबोध युधिष्ठिर
MBh 12.105.3
क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्
तं पप्रच्छोपसंगृह्य कृच्छ्रामापदमास्थितः
MBh 12.105.4
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति
MBh 12.105.5
अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात्
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम
MBh 12.105.6
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत्
MBh 12.105.7
निर्विद्य हि नरः कामान्नियम्य सुखमेधते
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु
MBh 12.105.8
सुखमर्थाश्रयं येषामनुशोचामि तानहम्
मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः
MBh 12.105.9
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये
वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः
MBh 12.105.10
इमामवस्थां संप्राप्तं दीनमार्तं श्रियश्च्युतम्
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम्
MBh 12.105.11
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः
MBh 12.105.12
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः
अनित्यं सर्वमेवेदमहं च मम चास्ति यत्
MBh 12.105.13
यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः
MBh 12.105.14
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति
एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे
MBh 12.105.15
यच्च पूर्वे समाहारे यच्च पूर्वतरे परे
सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसंज्वरेत्
MBh 12.105.16
भूत्वा च न भवत्येतदभूत्वा च भवत्यपि
शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः
MBh 12.105.17
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः
न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च
MBh 12.105.18
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि
बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि
MBh 12.105.19
अहं च त्वं च नृपते शत्रवः सुहृदश्च ते
अवश्यं न भविष्यामः सर्वं च न भविष्यति
MBh 12.105.20
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात्
MBh 12.105.21
अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः
MBh 12.105.22
अनागतं यन्न ममेति विद्या;दतिक्रान्तं यन्न ममेति विद्यात्
दिष्टं बलीय इति मन्यमाना;स्ते पण्डितास्तत्सतां स्थानमाहुः
MBh 12.105.23
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते
बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः
MBh 12.105.24
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः
किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः
MBh 12.105.25
राजपुत्र उवाच
यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये
ह्रियते सर्वमेवेदं कालेन महता द्विज
MBh 12.105.26
तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन
फलमेतत्प्रपश्यामि यथालब्धेन वर्तये
MBh 12.105.27
मुनिरुवाच
अनागतमतीतं च यथा तथ्यविनिश्चयात्
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव
MBh 12.105.28
अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान्
MBh 12.105.29
यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि
MBh 12.105.30
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः
धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते
MBh 12.105.31
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते
MBh 12.105.32
ईर्ष्यातिच्छेदसंपन्ना राजन्पुरुषमानिनः
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप
MBh 12.105.33
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः
अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात्
MBh 12.105.34
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः
त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत
MBh 12.105.35
बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च
तथान्ये संत्यजन्त्येनं मत्वा परमदुर्लभम्
MBh 12.105.36
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे
अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान्
MBh 12.105.37
तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज
अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः
MBh 12.105.38
अर्थायैव हि केषांचिद्धननाशो भवत्युत
अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते
MBh 12.105.39
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते
तथा तस्येहमानस्य समारम्भो विनश्यति
MBh 12.105.40
कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः
MBh 12.105.41
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात्
MBh 12.105.42
जीवितं संत्यजन्त्येके धनलोभपरा नराः
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते
MBh 12.105.43
पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम्
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः
MBh 12.105.44
संचये च विनाशान्ते मरणान्ते च जीविते
संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः
MBh 12.105.45
धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम्
अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसंज्वरेत्
MBh 12.105.46
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च
पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्
MBh 12.105.47
प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च
प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसंभवे
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति
MBh 12.105.48
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति
MBh 12.105.49
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम्
MBh 12.105.50
अपि मूलफलाजीवो रमस्वैको महावने
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः
MBh 12.105.51
सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति
MBh 12.105.52
महाह्रदः संक्षुभित आत्मनैव प्रसीदति
एतदेवंगतस्याहं सुखं पश्यामि केवलम्
MBh 12.105.53
असंभवे श्रियो राजन्हीनस्य सचिवादिभिः
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 104
- Next chapter · Śānti-Parva Ch 106 →
Sources and Connected Readings
Continue from these 53 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.105local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷