🪷 Mahābhārata · Śānti-Parva · Chapter 104
The Book of Peace · the great dharma-śāstra · Parva 12 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 52 Shlokas
MBh 12.104.1
युधिष्ठिर उवाच
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह
MBh 12.104.2
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर
MBh 12.104.3
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः
उपसंगम्य पप्रच्छ वासवः परवीरहा
MBh 12.104.4
अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः
असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः
MBh 12.104.5
सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत्
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी
MBh 12.104.6
ततो धर्मार्थकामानां कुशलः प्रतिभानवान्
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्
MBh 12.104.7
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः
बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता
MBh 12.104.8
क्रोधं बलममर्षं च नियम्यात्मजमात्मनि
अमित्रमुपसेवेत विश्वस्तवदविश्वसन्
MBh 12.104.9
प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्
विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत्
MBh 12.104.10
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः
तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः
वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर
MBh 12.104.11
न नित्यं परिभूयारीन्सुखं स्वपिति वासव
जागर्त्येव च दुष्टात्मा संकरेऽग्निरिवोत्थितः
MBh 12.104.12
न संनिपातः कर्तव्यः सामान्ये विजये सति
विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो
MBh 12.104.13
संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः
उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः
MBh 12.104.14
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः
MBh 12.104.15
आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत्
बलानि दूषयेदस्य जानंश्चैव प्रमाणतः
MBh 12.104.16
भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा
न त्वेव चेलसंसर्गं रचयेदरिभिः सह
MBh 12.104.17
दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान्
कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः
MBh 12.104.18
न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः
न यः शल्यं घट्टयति नवं च कुरुते व्रणम्
MBh 12.104.19
प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति
MBh 12.104.20
यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम्
दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा
MBh 12.104.21
और्जस्थ्यं विजयेदेवं संगृह्णन्साधुसंमतान्
कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत्
MBh 12.104.22
विहाय कामं क्रोधं च तथाहंकारमेव च
युक्तो विवरमन्विच्छेदहितानां पुरंदर
MBh 12.104.23
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम
मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम्
MBh 12.104.24
निहत्यैतानि चत्वारि मायां प्रतिविधाय च
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्
MBh 12.104.25
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्
यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि
MBh 12.104.26
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्
MBh 12.104.27
भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा
MBh 12.104.28
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः
MBh 12.104.29
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्
अमित्रमुपसेवेत न तु जातु विशङ्कयेत्
MBh 12.104.30
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्
न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः
MBh 12.104.31
न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम
यथा विविधवृत्तानामैश्वर्यममराधिप
MBh 12.104.32
तथा विविधशीलानामपि संभव उच्यते
यतेत योगमास्थाय मित्रामित्रानवारयन्
MBh 12.104.33
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः
मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव
MBh 12.104.34
यथा वप्रे वेगवति सर्वतःसंप्लुतोदके
नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः
MBh 12.104.35
न बहूनभियुञ्जीत यौगपद्येन शात्रवान्
साम्ना दानेन भेदेन दण्डेन च पुरंदर
MBh 12.104.36
एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत्
न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः
MBh 12.104.37
यदा स्यान्महती सेना हयनागरथाकुला
पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी
MBh 12.104.38
यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन्
MBh 12.104.39
न साम दण्डोपनिषत्प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा
न सस्यघातो न च संकरक्रिया; न चापि भूयः प्रकृतेर्विचारणा
MBh 12.104.40
मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसंप्रयोगात्
आप्तैर्मनुष्यैरुपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः
MBh 12.104.41
पुराणि चैषामनुसृत्य भूमिपाः; पुरेषु भोगान्निखिलानिहाजयन्
पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन
MBh 12.104.42
प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगानवधाय च स्वान्
दुष्टाः स्वदोषैरिति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति
MBh 12.104.43
तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलंकृतैः शास्त्रविधानदृष्टिभिः
सुशिक्षितैर्भाष्यकथाविशारदैः; परेषु कृत्यानुपधारयस्व
MBh 12.104.44
इन्द्र उवाच
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम
कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे
MBh 12.104.45
बृहस्पतिरुवाच
परोक्षमगुणानाह सद्गुणानभ्यसूयति
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः
MBh 12.104.46
तूष्णींभावेऽपि हि ज्ञानं न चेद्भवति कारणम्
विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम्
MBh 12.104.47
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते
अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते
MBh 12.104.48
पृथगेत्य समश्नाति नेदमद्य यथाविधि
आसने शयने याने भावा लक्ष्या विशेषतः
MBh 12.104.49
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्
MBh 12.104.50
एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः
MBh 12.104.51
इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर
MBh 12.104.52
भीष्म उवाच
स तद्वचः शत्रुनिबर्हणे रत;स्तथा चकारावितथं बृहस्पतेः
चचार काले विजयाय चारिहा; वशं च शत्रूननयत्पुरंदरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 103
- Next chapter · Śānti-Parva Ch 105 →
Sources and Connected Readings
Continue from these 52 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.104local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷