🪷 Mahābhārata · Śānti-Parva · Chapter 103
The Book of Peace · the great dharma-śāstra · Parva 12 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 12.103.1
युधिष्ठिर उवाच
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम्
MBh 12.103.2
भीष्म उवाच
जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः
MBh 12.103.3
दैवं पूर्वं विकुरुते मानुषे कालचोदिते
तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा
MBh 12.103.4
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः
मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि
MBh 12.103.5
उदीर्णमनसो योधा वाहनानि च भारत
यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत्
MBh 12.103.6
अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च
अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः
MBh 12.103.7
गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः
आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा
MBh 12.103.8
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः
MBh 12.103.9
गम्भीरशब्दाश्च महास्वनाश्च; शङ्खाश्च भेर्यश्च नदन्ति यत्र
युयुत्सवश्चाप्रतीपा भवन्ति; जयस्यैतद्भाविनो रूपमाहुः
MBh 12.103.10
इष्टा मृगाः पृष्ठतो वामतश्च; संप्रस्थितानां च गमिष्यतां च
जिघांसतां दक्षिणाः सिद्धिमाहु;र्ये त्वग्रतस्ते प्रतिषेधयन्ति
MBh 12.103.11
मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश्च चाषाः
हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः
MBh 12.103.12
शस्त्रैः पत्रैः कवचैः केतुभिश्च; सुभानुभिर्मुखवर्णैश्च यूनाम्
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्तेऽभिभवन्ति शत्रून्
MBh 12.103.13
शुश्रूषवश्चानभिमानिनश्च; परस्परं सौहृदमास्थिताश्च
येषां योधाः शौचमनुष्ठिताश्च; जयस्यैतद्भाविनो रूपमाहुः
MBh 12.103.14
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः
धैर्यं चाविशते योधान्विजयस्य मुखं तु तत्
MBh 12.103.15
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति
MBh 12.103.16
संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर
साम्नैवावर्तने पूर्वं प्रयतेथास्ततो युधि
MBh 12.103.17
जघन्य एष विजयो यद्युद्धं नाम भारत
यादृच्छिको युधि जयो दैवो वेति विचारणम्
MBh 12.103.18
अपामिव महावेगस्त्रस्ता मृगगणा इव
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः
MBh 12.103.19
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम्
उदारसारा महती रुरुसंघोपमा चमूः
MBh 12.103.20
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः
अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम्
MBh 12.103.21
अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः
कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान्
MBh 12.103.22
संनिपातो न गन्तव्यः शक्ये सति कथंचन
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते
MBh 12.103.23
संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते
वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति
MBh 12.103.24
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ
तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च
MBh 12.103.25
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः
शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम्
MBh 12.103.26
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः
संपीड्यमाना हि परे योगमायान्ति सर्वशः
MBh 12.103.27
अन्तराणां च भेदार्थं चारानभ्यवचारयेत्
यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते
MBh 12.103.28
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम्
MBh 12.103.29
क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा
क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम्
MBh 12.103.30
विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते
महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः
MBh 12.103.31
मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः
असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः
MBh 12.103.32
नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम्
अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत्
MBh 12.103.33
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत्
MBh 12.103.34
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत
प्रहृत्य च कृपायेत शोचन्निव रुदन्निव
MBh 12.103.35
न मे प्रियं यत्स हतः संप्राहैवं पुरो वचः
न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः
MBh 12.103.36
अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति
सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः
MBh 12.103.37
कृतं ममाप्रियं तेन येनायं निहतो मृधे
इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः
MBh 12.103.38
हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम्
MBh 12.103.39
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन्
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः
MBh 12.103.40
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत
विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः
MBh 12.103.41
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 102
- Next chapter · Śānti-Parva Ch 104 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.103local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷