🪷 Mahābhārata · Śānti-Parva · Chapter 102

The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 12.102.1
युधिष्ठिर उवाच किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप
MBh 12.102.2
भीष्म उवाच यथाचरितमेवात्र शस्त्रपत्रं विधीयते आचारादेव पुरुषस्तथा कर्मसु वर्तते
MBh 12.102.3
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः आभीरवः सुबलिनस्तद्बलं सर्वपारगम्
MBh 12.102.4
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः
MBh 12.102.5
तथा यवनकाम्बोजा मथुरामभितश्च ये एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः
MBh 12.102.6
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु
MBh 12.102.7
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः
MBh 12.102.8
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः
MBh 12.102.9
मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः
MBh 12.102.10
बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः
MBh 12.102.11
गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च तुरंगगतिनिर्घोषास्ते नराः पारयिष्णवः
MBh 12.102.12
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च
MBh 12.102.13
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः
MBh 12.102.14
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः
MBh 12.102.15
प्रविशन्त्यतिवेगेन संपरायेऽभ्युपस्थिते वारणा इव संमत्तास्ते भवन्ति दुरासदाः
MBh 12.102.16
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः
MBh 12.102.17
उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव
MBh 12.102.18
उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः
MBh 12.102.19
त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते
MBh 12.102.20
अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.102local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷