🪷 Mahābhārata · Śānti-Parva · Chapter 101

The Book of Peace · the great dharma-śāstra · Parva 12 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 47 Shlokas

MBh 12.101.1
युधिष्ठिर उवाच यथा जयार्थिनः सेनां नयन्ति भरतर्षभ ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह
MBh 12.101.2
भीष्म उवाच सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे साध्वाचारतया केचित्तथैवौपयिका अपि उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः
MBh 12.101.3
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे
MBh 12.101.4
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्
MBh 12.101.5
अमित्रा एव राजानं भेदेनोपचरन्त्युत तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते
MBh 12.101.6
गजानां पार्श्वचर्माणि गोवृषाजगराणि च शल्यकङ्कटलोहानि तनुत्राणि मतानि च
MBh 12.101.7
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते
MBh 12.101.8
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः
MBh 12.101.9
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा
MBh 12.101.10
नैवातिशीतो नात्युष्णः कालो भवति भारत तस्मात्तदा योजयेत परेषां व्यसनेषु वा एतेषु योगाः सेनायाः प्रशस्ताः परबाधने
MBh 12.101.11
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः
MBh 12.101.12
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः
MBh 12.101.13
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्
MBh 12.101.14
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः
MBh 12.101.15
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् अथ शत्रुप्रतीघातमापदर्थं परायणम्
MBh 12.101.16
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव अनेन विधिना राजञ्जिगीषेतापि दुर्जयान्
MBh 12.101.17
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर
MBh 12.101.18
अकर्दमामनुदकाममर्यादामलोष्टकाम् अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः
MBh 12.101.19
समा निरुदकाकाशा रथभूमिः प्रशस्यते नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्
MBh 12.101.20
बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता पदातीनां क्षमा भूमिः पर्वतोपवनानि च
MBh 12.101.21
पदातिबहुला सेना दृढा भवति भारत रथाश्वबहुला सेना सुदिनेषु प्रशस्यते
MBh 12.101.22
पदातिनागबहुला प्रावृट्काले प्रशस्यते गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्
MBh 12.101.23
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्
MBh 12.101.24
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् मोक्षे प्रयाणे चलने पानभोजनकालयोः
MBh 12.101.25
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः
MBh 12.101.26
पारंपर्यागते द्वारे ये केचिदनुवर्तिनः परिचर्यावरोद्धारो ये च केचन वल्गिनः
MBh 12.101.27
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च समानाशनपानास्ते कार्या द्विगुणवेतनाः
MBh 12.101.28
दशाधिपतयः कार्याः शताधिपतयस्तथा तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्
MBh 12.101.29
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे यथा जयार्थं संग्रामे न जह्याम परस्परम्
MBh 12.101.30
इहैव ते निवर्तन्तां ये नः केचन भीरवः न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति
MBh 12.101.31
आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने
MBh 12.101.32
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च
MBh 12.101.33
हित्वा पलायमानस्य सहायान्प्राणसंशये अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा
MBh 12.101.34
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह
MBh 12.101.35
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च
MBh 12.101.36
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः तदसह्यतरं दुःखमहं मन्ये वधादपि
MBh 12.101.37
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च सा भीरूणां परान्याति शूरस्तामधिगच्छति
MBh 12.101.38
ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम्
MBh 12.101.39
एवं संशप्तशपथाः समभित्यक्तजीविताः अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः
MBh 12.101.40
अग्रतः पुरुषानीकमसिचर्मवतां भवेत् पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा
MBh 12.101.41
परेषां प्रतिघातार्थं पदातीनां च गूहनम् अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः
MBh 12.101.42
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः
MBh 12.101.43
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः
MBh 12.101.44
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् सूचीमुखमनीकं स्यादल्पानां बहुभिः सह
MBh 12.101.45
संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति
MBh 12.101.46
आगतं नो मित्रबलं प्रहरध्वमभीतवत् शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम्
MBh 12.101.47
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 47 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.101local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷