🪷 Mahābhārata · Śānti-Parva · Chapter 110

The Book of Peace · the great dharma-śāstra · Parva 12 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 12.110.1
युधिष्ठिर उवाच कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ
MBh 12.110.2
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः
MBh 12.110.3
किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्
MBh 12.110.4
भीष्म उवाच सत्यस्य वचनं साधु न सत्याद्विद्यते परम् यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत
MBh 12.110.5
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत्
MBh 12.110.6
तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम् सत्यानृते विनिश्चित्य ततो भवति धर्मवित्
MBh 12.110.7
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव
MBh 12.110.8
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः
MBh 12.110.9
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति
MBh 12.110.10
प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः
MBh 12.110.11
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः
MBh 12.110.12
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते
MBh 12.110.13
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः
MBh 12.110.14
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात्
MBh 12.110.15
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् यः पापैः सह संबन्धान्मुच्यते शपथादिति
MBh 12.110.16
न च तेभ्यो धनं देयं शक्ये सति कथंचन पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्
MBh 12.110.17
स्वशरीरोपरोधेन वरमादातुमिच्छतः सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः
MBh 12.110.18
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः
MBh 12.110.19
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः
MBh 12.110.20
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः
MBh 12.110.21
धनमित्येव पापानां सर्वेषामिह निश्चयः येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः
MBh 12.110.22
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते धनादानाद्दुःखतरं जीविताद्विप्रयोजनम्
MBh 12.110.23
अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः
MBh 12.110.24
तथागतं च यो हन्यान्नासौ पापेन लिप्यते स्वकर्मणा हतं हन्ति हत एव स हन्यते तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु
MBh 12.110.25
यथा काकश्च गृध्रश्च तथैवोपधिजीविनः ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु
MBh 12.110.26
यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.110local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷