🪷 Mahābhārata · Śalya-Parva · Chapter 56

The Book of Śalya · Parva 9 · 67 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 67 Shlokas

MBh 9.56.1
संजय उवाच ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् प्रत्युद्ययावदीनात्मा वेगेन महता नदन्
MBh 9.56.2
समापेततुरानद्य शृङ्गिणौ वृषभाविव महानिर्घातघोषश्च संप्रहारस्तयोरभूत्
MBh 9.56.3
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव
MBh 9.56.4
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ददृशाते महात्मानौ पुष्पिताविव किंशुकौ
MBh 9.56.5
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे खद्योतसंघैरिव खं दर्शनीयं व्यरोचत
MBh 9.56.6
तथा तस्मिन्वर्तमाने संकुले तुमुले भृशम् उभावपि परिश्रान्तौ युध्यमानावरिंदमौ
MBh 9.56.7
तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे
MBh 9.56.8
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ
MBh 9.56.9
अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदावुभौ विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः
MBh 9.56.10
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ संशयः सर्वभूतानां विजये समपद्यत
MBh 9.56.11
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति
MBh 9.56.12
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम्
MBh 9.56.13
आविध्यतो गदां तस्य भीमसेनस्य संयुगे शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत
MBh 9.56.14
आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् गदामलघुवेगां तां विस्मितः संबभूव ह
MBh 9.56.15
चरंश्च विविधान्मार्गान्मण्डलानि च भारत अशोभत तदा वीरो भूय एव वृकोदरः
MBh 9.56.16
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः
MBh 9.56.17
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा मण्डलानि विचित्राणि स्थानानि विविधानि च
MBh 9.56.18
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च परिमोक्षं प्रहाराणां वर्जनं परिधावनम्
MBh 9.56.19
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् परावर्तनसंवर्तमवप्लुतमथाप्लुतम् उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ
MBh 9.56.20
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ
MBh 9.56.21
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली
MBh 9.56.22
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत
MBh 9.56.23
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत्
MBh 9.56.24
आहतस्तु तदा भीमस्तव पुत्रेण भारत आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन्
MBh 9.56.25
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ददृशुस्ते महाराज भीमसेनस्य तां गदाम्
MBh 9.56.26
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः
MBh 9.56.27
गदामारुतवेगेन तव पुत्रस्य भारत शब्द आसीत्सुतुमुलस्तेजश्च समजायत
MBh 9.56.28
स चरन्विविधान्मार्गान्मण्डलानि च भागशः समशोभत तेजस्वी भूयो भीमात्सुयोधनः
MBh 9.56.29
आविद्धा सर्ववेगेन भीमेन महती गदा सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना
MBh 9.56.30
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत
MBh 9.56.31
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः भयं विवेश पाण्डून्वै सर्वानेव ससोमकान्
MBh 9.56.32
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ
MBh 9.56.33
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा अशोभेतां महाराज शोणितेन परिप्लुतौ
MBh 9.56.34
एवं तदभवद्युद्धं घोररूपमसंवृतम् परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव
MBh 9.56.35
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे
MBh 9.56.36
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम्
MBh 9.56.37
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव
MBh 9.56.38
वेगवत्या तया तत्र भीमसेनप्रमुक्तया निपतन्त्या महाराज पृथिवी समकम्पत
MBh 9.56.39
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात्
MBh 9.56.40
स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया
MBh 9.56.41
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः नाकम्पत महाराज तदद्भुतमिवाभवत्
MBh 9.56.42
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् यद्गदाभिहतो भीमो नाकम्पत पदात्पदम्
MBh 9.56.43
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः
MBh 9.56.44
तं प्रहारमसंभ्रान्तो लाघवेन महाबलः मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान्
MBh 9.56.45
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता चालयामास पृथिवीं महानिर्घातनिस्वना
MBh 9.56.46
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत्
MBh 9.56.47
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः ताडयामास संक्रुद्धो वक्षोदेशे महाबलः
MBh 9.56.48
गदयाभिहतो भीमो मुह्यमानो महारणे नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव
MBh 9.56.49
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः भृशोपहतसंकल्पा नहृष्टमनसोऽभवन्
MBh 9.56.50
स तु तेन प्रहारेण मातङ्ग इव रोषितः हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम्
MBh 9.56.51
ततस्तु रभसो भीमो गदया तनयं तव अभिदुद्राव वेगेन सिंहो वनगजं यथा
MBh 9.56.52
उपसृत्य तु राजानं गदामोक्षविशारदः आविध्यत गदां राजन्समुद्दिश्य सुतं तव
MBh 9.56.53
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा स विह्वलः प्रहारेण जानुभ्यामगमन्महीम्
MBh 9.56.54
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते
MBh 9.56.55
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत
MBh 9.56.56
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत
MBh 9.56.57
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे
MBh 9.56.58
स महात्मा महात्मानं भीमं भीमपराक्रमः अताडयच्छङ्खदेशे स चचालाचलोपमः
MBh 9.56.59
स भूयः शुशुभे पार्थस्ताडितो गदया रणे उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः
MBh 9.56.60
ततो गदां वीरहणीमयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम् अताडयच्छत्रुममित्रकर्शनो; बलेन विक्रम्य धनंजयाग्रजः
MBh 9.56.61
स भीमसेनाभिहतस्तवात्मजः; पपात संकम्पितदेहबन्धनः सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः
MBh 9.56.62
ततः प्रणेदुर्जहृषुश्च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव ततः सुतस्ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात्
MBh 9.56.63
स पार्थिवो नित्यममर्षितस्तदा; महारथः शिक्षितवत्परिभ्रमन् अताडयत्पाण्डवमग्रतः स्थितं; स विह्वलाङ्गो जगतीमुपास्पृशत्
MBh 9.56.64
स सिंहनादान्विननाद कौरवो; निपात्य भूमौ युधि भीममोजसा बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम्
MBh 9.56.65
ततोऽन्तरिक्षे निनदो महानभू;द्दिवौकसामप्सरसां च नेदुषाम् पपात चोच्चैरमरप्रवेरितं; विचित्रपुष्पोत्करवर्षमुत्तमम्
MBh 9.56.66
ततः परानाविशदुत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम् अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः
MBh 9.56.67
ततो मुहूर्तादुपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 67 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.56local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷