🪷 Mahābhārata · Śalya-Parva · Chapter 55

The Book of Śalya · Parva 9 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 9.55.1
वैशंपायन उवाच ततो वाग्युद्धमभवत्तुमुलं जनमेजय यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्
MBh 9.55.2
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः
MBh 9.55.3
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुंधराम् गदामादाय वेगेन पदातिः प्रस्थितो रणम्
MBh 9.55.4
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः गदामुद्यम्य यो याति किमन्यद्भागधेयतः
MBh 9.55.5
अहो दुःखं महत्प्राप्तं पुत्रेण मम संजय एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः
MBh 9.55.6
संजय उवाच स मेघनिनदो हर्षाद्विनदन्निव गोवृषः आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान्
MBh 9.55.7
भीममाह्वयमाने तु कुरुराजे महात्मनि प्रादुरासन्सुघोराणि रूपाणि विविधान्युत
MBh 9.55.8
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः
MBh 9.55.9
महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम्
MBh 9.55.10
राहुश्चाग्रसदादित्यमपर्वणि विशां पते चकम्पे च महाकम्पं पृथिवी सवनद्रुमा
MBh 9.55.11
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः गिरीणां शिखराण्येव न्यपतन्त महीतले
MBh 9.55.12
मृगा बहुविधाकाराः संपतन्ति दिशो दश दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः
MBh 9.55.13
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः
MBh 9.55.14
उदपानगताश्चापो व्यवर्धन्त समन्ततः अशरीरा महानादाः श्रूयन्ते स्म तदा नृप
MBh 9.55.15
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम्
MBh 9.55.16
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा
MBh 9.55.17
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् निहत्य गदया पापमिमं कुरुकुलाधमम्
MBh 9.55.18
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि हत्वेमं पापकर्माणं गदया रणमूर्धनि
MBh 9.55.19
अद्यास्य शतधा देहं भिनद्मि गदयानया नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्
MBh 9.55.20
सर्पोत्सर्गस्य शयने विषदानस्य भोजने प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि
MBh 9.55.21
सभायामवहासस्य सर्वस्वहरणस्य च वर्षमज्ञातवासस्य वनवासस्य चानघ
MBh 9.55.22
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः
MBh 9.55.23
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्
MBh 9.55.24
अद्यायं कुरुराजस्य शंतनोः कुलपांसनः प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले
MBh 9.55.25
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्
MBh 9.55.26
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्
MBh 9.55.27
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह
MBh 9.55.28
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते
MBh 9.55.29
द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च
MBh 9.55.30
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् विराटनगरे चैव योन्यन्तरगतैरिव तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते
MBh 9.55.31
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना
MBh 9.55.32
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः
MBh 9.55.33
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः
MBh 9.55.34
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः त्वामद्य निहनिष्यामि गदया नात्र संशयः
MBh 9.55.35
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः
MBh 9.55.36
किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम
MBh 9.55.37
नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः
MBh 9.55.38
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम त्वया सह गदायुद्धं त्रिदशैरुपपादितम्
MBh 9.55.39
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते वाणी संपद्यतामेषा कर्मणा मा चिरं कृथाः
MBh 9.55.40
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् राजानः सोमकाश्चैव ये तत्रासन्समागताः
MBh 9.55.41
ततः संपूजितः सर्वैः संप्रहृष्टतनूरुहः भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः
MBh 9.55.42
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम्
MBh 9.55.43
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः
MBh 9.55.44
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.55local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷