🪷 Mahābhārata · Śalya-Parva · Chapter 54

The Book of Śalya · Parva 9 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 9.54.1
वैशंपायन उवाच एवं तदभवद्युद्धं तुमुलं जनमेजय यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्
MBh 9.54.2
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय
MBh 9.54.3
संजय उवाच रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव युद्धकामो महाबाहुः समहृष्यत वीर्यवान्
MBh 9.54.4
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत्
MBh 9.54.5
समन्तपञ्चकं क्षिप्रमितो याम विशां पते प्रथितोत्तरवेदी सा देवलोके प्रजापतेः
MBh 9.54.6
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति
MBh 9.54.7
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः
MBh 9.54.8
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह
MBh 9.54.9
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः
MBh 9.54.10
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत्
MBh 9.54.11
ततः शङ्खनिनादेन भेरीणां च महास्वनैः सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः
MBh 9.54.12
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम्
MBh 9.54.13
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन्
MBh 9.54.14
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः
MBh 9.54.15
अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव
MBh 9.54.16
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ
MBh 9.54.17
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ अशोभेतां महाराज चन्द्रसूर्याविवोदितौ
MBh 9.54.18
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ दहन्तौ लोचनै राजन्परस्परवधैषिणौ
MBh 9.54.19
संप्रहृष्टमना राजन्गदामादाय कौरवः सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन्
MBh 9.54.20
ततो दुर्योधनो राजा गदामादाय वीर्यवान् भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत्
MBh 9.54.21
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् आह्वयामास नृपतिं सिंहः सिंहं यथा वने
MBh 9.54.22
तावुद्यतगदापाणी दुर्योधनवृकोदरौ संयुगे स्म प्रकाशेते गिरी सशिखराविव
MBh 9.54.23
तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः
MBh 9.54.24
उभौ सदृशकर्माणौ यमवासवयोरिव तथा सदृशकर्माणौ वरुणस्य महाबलौ
MBh 9.54.25
वासुदेवस्य रामस्य तथा वैश्रवणस्य च सदृशौ तौ महाराज मधुकैटभयोर्युधि
MBh 9.54.26
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः तथैव कालस्य समौ मृत्योश्चैव परंतपौ
MBh 9.54.27
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ
MBh 9.54.28
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव
MBh 9.54.29
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ उभौ भरतशार्दूलौ विक्रमेण समन्वितौ
MBh 9.54.30
सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ
MBh 9.54.31
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ
MBh 9.54.32
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ
MBh 9.54.33
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ जहृषाते महाबाहू सिंहौ केसरिणाविव
MBh 9.54.34
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ
MBh 9.54.35
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ
MBh 9.54.36
उभौ परमसंहृष्टावुभौ परमसंमतौ सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ
MBh 9.54.37
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ
MBh 9.54.38
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्
MBh 9.54.39
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः
MBh 9.54.40
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् विराजमानं ददृशे दिवीवादित्यमण्डलम्
MBh 9.54.41
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः उपविष्टो महाराज पूज्यमानः समन्ततः
MBh 9.54.42
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः
MBh 9.54.43
तौ तथा तु महाराज गदाहस्तौ दुरासदौ अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ
MBh 9.54.44
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.54local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷