🪷 Mahābhārata · Śalya-Parva · Chapter 53

The Book of Śalya · Parva 9 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 37 Shlokas

MBh 9.53.1
वैशंपायन उवाच कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः आश्रमं सुमहद्दिव्यमगमज्जनमेजय
MBh 9.53.2
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम् चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम्
MBh 9.53.3
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम्
MBh 9.53.4
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः
MBh 9.53.5
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः
MBh 9.53.6
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी
MBh 9.53.7
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी
MBh 9.53.8
सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा गता स्वर्गं महाभागा पूजिता नियतात्मभिः
MBh 9.53.9
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम्
MBh 9.53.10
नातिदूरं ततो गत्वा नगं तालध्वजो बली पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः
MBh 9.53.11
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः संप्राप्तः कारपचनं तीर्थप्रवरमुत्तमम्
MBh 9.53.12
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः आप्लुतः सलिले शीते तस्माच्चापि जगाम ह आश्रमं परमप्रीतो मित्रस्य वरुणस्य च
MBh 9.53.13
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् तं देशं कारपचनाद्यमुनायां जगाम ह
MBh 9.53.14
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः
MBh 9.53.15
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः आजगामाथ तं देशं यत्र रामो व्यवस्थितः
MBh 9.53.16
जटामण्डलसंवीतः स्वर्णचीरी महातपाः हेमदण्डधरो राजन्कमण्डलुधरस्तथा
MBh 9.53.17
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् नृत्ये गीते च कुशलो देवब्राह्मणपूजितः
MBh 9.53.18
प्रकर्ता कलहानां च नित्यं च कलहप्रियः तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः
MBh 9.53.19
प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति
MBh 9.53.20
ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् सर्वमेव यथावृत्तमतीतं कुरुसंक्षयम्
MBh 9.53.21
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः
MBh 9.53.22
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन विस्तरश्रवणे जातं कौतूहलमतीव मे
MBh 9.53.23
नारद उवाच पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः
MBh 9.53.24
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् एते चान्ये च बहवस्तत्र तत्र महाबलाः
MBh 9.53.25
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै राजानो राजपुत्राश्च समरेष्वनिवर्तिनः
MBh 9.53.26
अहतांस्तु महाबाहो शृणु मे तत्र माधव धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः
MBh 9.53.27
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः
MBh 9.53.28
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन्
MBh 9.53.29
स तुद्यमानो बलवान्वाग्भी राम समन्ततः उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम्
MBh 9.53.30
स चाप्युपगतो युद्धं भीमेन सह सांप्रतम् भविष्यति च तत्सद्यस्तयो राम सुदारुणम्
MBh 9.53.31
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे
MBh 9.53.32
वैशंपायन उवाच नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् सर्वान्विसर्जयामास ये तेनाभ्यागताः सह गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः
MBh 9.53.33
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् विप्राणां संनिधौ श्लोकमगायदिदमच्युतः
MBh 9.53.34
सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम्
MBh 9.53.35
सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च
MBh 9.53.36
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः
MBh 9.53.37
स शीघ्रगामिना तेन रथेन यदुपुंगवः दिदृक्षुरभिसंप्राप्तः शिष्ययुद्धमुपस्थितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 37 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.53local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷