🪷 Mahābhārata · Śalya-Parva · Chapter 57

The Book of Śalya · Parva 9 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 9.57.1
संजय उवाच समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्
MBh 9.57.2
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः कस्य वा को गुणो भूयानेतद्वद जनार्दन
MBh 9.57.3
वासुदेव उवाच उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात्
MBh 9.57.4
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम्
MBh 9.57.5
मायया निर्जिता देवैरसुरा इति नः श्रुतम् विरोचनश्च शक्रेण मायया निर्जितः सखे मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः
MBh 9.57.6
प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्
MBh 9.57.7
सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः मायाविनं च राजानं माययैव निकृन्ततु
MBh 9.57.8
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः
MBh 9.57.9
पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे धर्मराजापराधेन भयं नः पुनरागतम्
MBh 9.57.10
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् तदेवं विजयः प्राप्तः पुनः संशयितः कृतः
MBh 9.57.11
अबुद्धिरेषा महती धर्मराजस्य पाण्डव यदेकविजये युद्धं पणितं कृतमीदृशम् सुयोधनः कृती वीर एकायनगतस्तथा
MBh 9.57.12
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु
MBh 9.57.13
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् भेतव्यमरिशेषाणामेकायनगता हि ते
MBh 9.57.14
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् पराजितं वनप्रेप्सुं निराशं राज्यलम्भने
MBh 9.57.15
को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत् अपि वो निर्जितं राज्यं न हरेत सुयोधनः
MBh 9.57.16
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया
MBh 9.57.17
एवं चेन्न महाबाहुरन्यायेन हनिष्यति एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति
MBh 9.57.18
धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत्
MBh 9.57.19
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे मण्डलानि विचित्राणि यमकानीतराणि च
MBh 9.57.20
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव
MBh 9.57.21
तथैव तव पुत्रोऽपि गदामार्गविशारदः व्यचरल्लघु चित्रं च भीमसेनजिघांसया
MBh 9.57.22
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ
MBh 9.57.23
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ
MBh 9.57.24
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः
MBh 9.57.25
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः
MBh 9.57.26
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव गदानिर्घातसंह्रादः प्रहाराणामजायत
MBh 9.57.27
तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम् उभावपि परिश्रान्तौ युध्यमानावरिंदमौ
MBh 9.57.28
तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे
MBh 9.57.29
तयोः समभवद्युद्धं घोररूपमसंवृतम् गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्
MBh 9.57.30
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव
MBh 9.57.31
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ ददृशाते हिमवति पुष्पिताविव किंशुकौ
MBh 9.57.32
दुर्योधनेन पार्थस्तु विवरे संप्रदर्शिते ईषदुत्स्मयमानस्तु सहसा प्रससार ह
MBh 9.57.33
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः अवाक्षिपद्गदां तस्मै वेगेन महता बली
MBh 9.57.34
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि
MBh 9.57.35
मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात् भीमसेनं च गदया प्राहरत्कुरुसत्तमः
MBh 9.57.36
तस्य विष्यन्दमानेन रुधिरेणामितौजसः प्रहारगुरुपाताच्च मूर्छेव समजायत
MBh 9.57.37
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे धारयामास भीमोऽपि शरीरमतिपीडितम्
MBh 9.57.38
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे अतो न प्राहरत्तस्मै पुनरेव तवात्मजः
MBh 9.57.39
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान्
MBh 9.57.40
तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम् मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ
MBh 9.57.41
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम्
MBh 9.57.42
अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत्
MBh 9.57.43
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः
MBh 9.57.44
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ
MBh 9.57.45
स पपात नरव्याघ्रो वसुधामनुनादयन् भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते
MBh 9.57.46
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च चचाल पृथिवी चापि सवृक्षक्षुपपर्वता
MBh 9.57.47
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी पपात चोल्का महती पतिते पृथिवीपतौ
MBh 9.57.48
तथा शोणितवर्षं च पांसुवर्षं च भारत ववर्ष मघवांस्तत्र तव पुत्रे निपातिते
MBh 9.57.49
यक्षाणां राक्षसानां च पिशाचानां तथैव च अन्तरिक्षे महानादः श्रूयते भरतर्षभ
MBh 9.57.50
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम्
MBh 9.57.51
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह मुमुचुस्ते महानादं तव पुत्रे निपातिते
MBh 9.57.52
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते
MBh 9.57.53
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप
MBh 9.57.54
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते
MBh 9.57.55
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन्
MBh 9.57.56
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् दुर्योधने तदा राजन्पतिते तनये तव
MBh 9.57.57
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह आविग्नमनसः सर्वे बभूवुर्भरतर्षभ
MBh 9.57.58
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत
MBh 9.57.59
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.57local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷