🪷 Mahābhārata · Śalya-Parva · Chapter 44
The Book of Śalya · Parva 9 · 110 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 110 Shlokas
MBh 9.44.1
वैशंपायन उवाच
ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः
बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि
MBh 9.44.2
ततो हिमवता दत्ते मणिप्रवरशोभिते
दिव्यरत्नाचिते दिव्ये निषण्णः परमासने
MBh 9.44.3
सर्वमङ्गलसंभारैर्विधिमन्त्रपुरस्कृतम्
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः
MBh 9.44.4
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा
धाता चैव विधाता च तथा चैवानिलानलौ
MBh 9.44.5
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च
MBh 9.44.6
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः
विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह
MBh 9.44.7
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः
देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः
MBh 9.44.8
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः
MBh 9.44.9
पितामहः पुलस्त्यश्च पुलहश्च महातपाः
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च
MBh 9.44.10
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते
MBh 9.44.11
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप
MBh 9.44.12
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती
उमा शची सिनीवाली तथा चानुमतिः कुहूः
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्
MBh 9.44.13
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप
MBh 9.44.14
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह
MBh 9.44.15
धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये
MBh 9.44.16
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः
MBh 9.44.17
जगृहुस्ते तदा राजन्सर्व एव दिवौकसः
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः
MBh 9.44.18
दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्नृप
सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु
MBh 9.44.19
अभ्यषिञ्चन्कुमारं वै संप्रहृष्टा दिवौकसः
सेनापतिं महात्मानमसुराणां भयावहम्
MBh 9.44.20
पुरा यथा महाराज वरुणं वै जलेश्वरम्
तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः
कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः
MBh 9.44.21
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः
MBh 9.44.22
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम्
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्
MBh 9.44.23
ततः स्थाणुं महावेगं महापारिषदं क्रतुम्
मायाशतधरं कामं कामवीर्यबलान्वितम्
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्
MBh 9.44.24
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्
जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश
MBh 9.44.25
तथा देवा ददुस्तस्मै सेनां नैरृतसंकुलाम्
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम्
MBh 9.44.26
जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः
गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा
MBh 9.44.27
यमः प्रादादनुचरौ यमकालोपमावुभौ
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती
MBh 9.44.28
सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ
तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान्
MBh 9.44.29
कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च
MBh 9.44.30
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ
MBh 9.44.31
परिघं च वटं चैव भीमं च सुमहाबलम्
दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते
MBh 9.44.32
उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ
ददावनलपुत्राय वासवः परवीरहा
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून्
MBh 9.44.33
चक्रं विक्रमकं चैव संक्रमं च महाबलम्
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः
MBh 9.44.34
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ
MBh 9.44.35
कुन्दनं कुसुमं चैव कुमुदं च महायशाः
डम्बराडम्बरौ चैव ददौ धाता महात्मने
MBh 9.44.36
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ
ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ
MBh 9.44.37
सुव्रतं सत्यसंधं च ददौ मित्रो महात्मने
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः
MBh 9.44.38
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ
सुप्रभं च महात्मानं शुभकर्माणमेव च
कार्त्तिकेयाय संप्रादाद्विधाता लोकविश्रुतौ
MBh 9.44.39
पालितकं कालिकं च महामायाविनावुभौ
पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत
MBh 9.44.40
बलं चातिबलं चैव महावक्त्रौ महाबलौ
प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम
MBh 9.44.41
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ
प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः
MBh 9.44.42
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्
हिमवान्प्रददौ राजन्हुताशनसुताय वै
MBh 9.44.43
काञ्चनं च महात्मानं मेघमालिनमेव च
ददावनुचरौ मेरुरग्निपुत्राय भारत
MBh 9.44.44
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ
महात्मनेऽग्निपुत्राय महाबलपराक्रमौ
MBh 9.44.45
उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ
MBh 9.44.46
संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ
प्रददावग्निपुत्राय महापारिषदावुभौ
MBh 9.44.47
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च
प्रददावग्निपुत्राय पार्वती शुभदर्शना
MBh 9.44.48
जयं महाजयं चैव नागौ ज्वलनसूनवे
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः
MBh 9.44.49
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा
सागराः सरितश्चैव गिरयश्च महाबलाः
MBh 9.44.50
ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्
MBh 9.44.51
शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः
विविधायुधसंपन्नाश्चित्राभरणवर्मिणः
MBh 9.44.52
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ
MBh 9.44.53
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः
अक्षसंतर्जनो राजन्कुनदीकस्तमोभ्रकृत्
MBh 9.44.54
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः
MBh 9.44.55
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः
MBh 9.44.56
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः
ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः
MBh 9.44.57
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः
विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः
MBh 9.44.58
उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च
MBh 9.44.59
पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा
MBh 9.44.60
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा
MBh 9.44.61
क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत
गोव्रजः कनकापीडो महापारिषदेश्वरः
MBh 9.44.62
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान्
वैताली चातिताली च तथा कतिकवातिकौ
MBh 9.44.63
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह
रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः
MBh 9.44.64
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः
कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा
MBh 9.44.65
यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः
सजालश्च महातेजाः क्रथक्राथौ च भारत
MBh 9.44.66
तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान्
मधुरः सुप्रसादश्च किरीटी च महाबलः
MBh 9.44.67
वसनो मधुवर्णश्च कलशोदर एव च
धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्
MBh 9.44.68
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा
MBh 9.44.69
अचलः कनकाक्षश्च बालानामयिकः प्रभुः
संचारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः
MBh 9.44.70
लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः
मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः
MBh 9.44.71
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः
चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः
MBh 9.44.72
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः
पैतामहा महात्मानो महापारिषदाश्च ह
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय
MBh 9.44.73
सहस्रशः पारिषदाः कुमारमुपतस्थिरे
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय
MBh 9.44.74
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा
MBh 9.44.75
मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा
भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा
MBh 9.44.76
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत
नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे
MBh 9.44.77
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः
MBh 9.44.78
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा
भीमा गजाननाश्चैव तथा नक्रमुखाः परे
MBh 9.44.79
गरुडाननाः खड्गमुखा वृककाकमुखास्तथा
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा
MBh 9.44.80
महाजठरपादाङ्गास्तारकाक्षाश्च भारत
पारावतमुखाश्चान्ये तथा वृषमुखाः परे
MBh 9.44.81
कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः
कृकलासमुखाश्चैव विरजोम्बरधारिणः
MBh 9.44.82
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः
आशीविषाश्चीरधरा गोनासावरणास्तथा
MBh 9.44.83
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः
MBh 9.44.84
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः
स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः
MBh 9.44.85
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा
MBh 9.44.86
तथा कीटपतंगानां सदृशास्या गणेश्वराः
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः
MBh 9.44.87
नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे
भुजंगभोगवदना नानागुल्मनिवासिनः
MBh 9.44.88
चीरसंवृतगात्राश्च तथा फलकवाससः
नानावेषधराश्चैव चर्मवासस एव च
MBh 9.44.89
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः
किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः
MBh 9.44.90
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा
MBh 9.44.91
चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा
दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः
MBh 9.44.92
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः
MBh 9.44.93
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः
कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः
MBh 9.44.94
हस्तिनासाः कूर्मनासा वृकनासास्तथापरे
दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः
MBh 9.44.95
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे
वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः
MBh 9.44.96
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः
पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत
MBh 9.44.97
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः
नानावर्मभिराच्छन्ना नानाभाषाश्च भारत
MBh 9.44.98
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा
MBh 9.44.99
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत
MBh 9.44.100
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः
श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत
MBh 9.44.101
चामरापीडकनिभाः श्वेतलोहितराजयः
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः
MBh 9.44.102
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु
शेषैः कृतं पारिषदैरायुधानां परिग्रहम्
MBh 9.44.103
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः
पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः
MBh 9.44.104
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः
शूलासिहस्ताश्च तथा महाकाया महाबलाः
MBh 9.44.105
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत
MBh 9.44.106
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः
महाबला महावेगा महापारिषदास्तथा
MBh 9.44.107
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः
MBh 9.44.108
एते चान्ये च बहवो महापारिषदा नृप
उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम्
MBh 9.44.109
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन्
MBh 9.44.110
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 43
- Next chapter · Śalya-Parva Ch 45 →
Sources and Connected Readings
Continue from these 110 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.44local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷