🪷 Mahābhārata · Śalya-Parva · Chapter 43
The Book of Śalya · Parva 9 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 52 Shlokas
MBh 9.43.1
जनमेजय उवाच
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम
कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि
MBh 9.43.2
यस्मिन्काले च देशे च यथा च वदतां वर
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः
MBh 9.43.3
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे
MBh 9.43.4
वैशंपायन उवाच
कुरुवंशस्य सदृशमिदं कौतूहलं तव
हर्षमुत्पादयत्येतद्वचो मे जनमेजय
MBh 9.43.5
हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप
अभिषेकं कुमारस्य प्रभावं च महात्मनः
MBh 9.43.6
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा
तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम्
MBh 9.43.7
तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः
न चैव धारयामास गर्भं तेजोमयं तदा
MBh 9.43.8
स गङ्गामभिसंगम्य नियोगाद्ब्रह्मणः प्रभुः
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम्
MBh 9.43.9
अथ गङ्गापि तं गर्भमसहन्ती विधारणे
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते
MBh 9.43.10
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः
MBh 9.43.11
शरस्तम्बे महात्मानमनलात्मजमीश्वरम्
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः
MBh 9.43.12
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा
MBh 9.43.13
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः
MBh 9.43.14
यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि
स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम
MBh 9.43.15
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता
अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः
MBh 9.43.16
कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः
गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः
MBh 9.43.17
स देवस्तपसा चैव वीर्येण च समन्वितः
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः
MBh 9.43.18
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः
स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा
MBh 9.43.19
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः
दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः
MBh 9.43.20
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्
MBh 9.43.21
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः
MBh 9.43.22
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससंग्रहः
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला
MBh 9.43.23
स ददर्श महावीर्यं देवदेवमुमापतिम्
शैलपुत्र्या सहासीनं भूतसंघशतैर्वृतम्
MBh 9.43.24
निकाया भूतसंघानां परमाद्भुतदर्शनाः
विकृता विकृताकारा विकृताभरणध्वजाः
MBh 9.43.25
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा
MBh 9.43.26
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि
MBh 9.43.27
श्वाविच्छल्यकगोधानां खरैडकगवां तथा
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन्
MBh 9.43.28
केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः
MBh 9.43.29
सप्तमातृगणाश्चैव समाजग्मुर्विशां पते
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा
MBh 9.43.30
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः
ब्रह्मा स्वयंभूर्भगवान्सपुत्रः सह विष्णुना
MBh 9.43.31
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम्
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः
MBh 9.43.32
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः
ऋभवो नाम वरदा देवानामपि देवताः
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः
MBh 9.43.33
स तु बालोऽपि भगवान्महायोगबलान्वितः
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्
MBh 9.43.34
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च
MBh 9.43.35
किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्
MBh 9.43.36
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः
युगपद्योगमास्थाय ससर्ज विविधास्तनूः
MBh 9.43.37
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः
स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः
MBh 9.43.38
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः
MBh 9.43.39
विशाखस्तु ययौ येन देवी गिरिवरात्मजा
शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम्
नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः
MBh 9.43.40
सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्
MBh 9.43.41
हाहाकारो महानासीद्देवदानवरक्षसाम्
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम्
MBh 9.43.42
ततो रुद्रश्च देवी च पावकश्च पितामहम्
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्
MBh 9.43.43
प्रणिपत्य ततस्ते तु विधिवद्राजपुंगव
इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया
MBh 9.43.44
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम्
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि
MBh 9.43.45
ततः स भगवान्धीमान्सर्वलोकपितामहः
मनसा चिन्तयामास किमयं लभतामिति
MBh 9.43.46
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम्
भूतयक्षविहंगानां पन्नगानां च सर्वशः
MBh 9.43.47
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम्
समर्थं च तमैश्वर्ये महामतिरमन्यत
MBh 9.43.48
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः
सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत
MBh 9.43.49
सर्वदेवनिकायानां ये राजानः परिश्रुताः
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः
MBh 9.43.50
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः
MBh 9.43.51
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता
MBh 9.43.52
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते
निषेदुर्देवगन्धर्वाः सर्वे संपूर्णमानसाः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 42
- Next chapter · Śalya-Parva Ch 44 →
Sources and Connected Readings
Continue from these 52 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.43local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷