🪷 Mahābhārata · Śalya-Parva · Chapter 45

The Book of Śalya · Parva 9 · 95 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 95 Shlokas

MBh 9.45.1
वैशंपायन उवाच शृणु मातृगणान्राजन्कुमारानुचरानिमान् कीर्त्यमानान्मया वीर सपत्नगणसूदनान्
MBh 9.45.2
यशस्विनीनां मातॄणां शृणु नामानि भारत याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः
MBh 9.45.3
प्रभावती विशालाक्षी पलिता गोनसी तथा श्रीमती बहुला चैव तथैव बहुपुत्रिका
MBh 9.45.4
अप्सुजाता च गोपाली बृहदम्बालिका तथा जयावती मालतिका ध्रुवरत्ना भयंकरी
MBh 9.45.5
वसुदामा सुदामा च विशोका नन्दिनी तथा एकचूडा महाचूडा चक्रनेमिश्च भारत
MBh 9.45.6
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना शत्रुंजया तथा चैव क्रोधना शलभी खरी
MBh 9.45.7
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत गीतप्रिया च कल्याणी कद्रुला चामिताशना
MBh 9.45.8
मेघस्वना भोगवती सुभ्रूश्च कनकावती अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
MBh 9.45.9
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना संतानिका च कौरव्य कमला च महाबला
MBh 9.45.10
सुदामा बहुदामा च सुप्रभा च यशस्विनी नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला
MBh 9.45.11
शतघण्टा शतानन्दा भगनन्दा च भामिनी वपुष्मती चन्द्रशीता भद्रकाली च भारत
MBh 9.45.12
संकारिका निष्कुटिका भ्रमा चत्वरवासिनी सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया
MBh 9.45.13
धनदा सुप्रसादा च भवदा च जलेश्वरी एडी भेडी समेडी च वेतालजननी तथा कण्डूतिः कालिका चैव देवमित्रा च भारत
MBh 9.45.14
लम्बसी केतकी चैव चित्रसेना तथा बला कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप
MBh 9.45.15
कुण्डारिका कोकलिका कण्डरा च शतोदरी उत्क्राथिनी जरेणा च महावेगा च कङ्कणा
MBh 9.45.16
मनोजवा कण्टकिनी प्रघसा पूतना तथा खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा
MBh 9.45.17
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी
MBh 9.45.18
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च
MBh 9.45.19
पक्षालिका मन्थनिका जरायुर्जर्जरानना ख्याता दहदहा चैव तथा धमधमा नृप
MBh 9.45.20
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला अमोचा चैव कौरव्य तथा लम्बपयोधरा
MBh 9.45.21
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला शशोलूकमुखी कृष्णा खरजङ्घा महाजवा
MBh 9.45.22
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा जटालिका कामचरी दीर्घजिह्वा बलोत्कटा
MBh 9.45.23
कालेडिका वामनिका मुकुटा चैव भारत लोहिताक्षी महाकाया हरिपिण्डी च भूमिप
MBh 9.45.24
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा
MBh 9.45.25
चतुष्पथनिकेता च गोकर्णी महिषानना खरकर्णी महाकर्णी भेरीस्वनमहास्वना
MBh 9.45.26
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला गणा च सुगणा चैव तथाभीत्यथ कामदा
MBh 9.45.27
चतुष्पथरता चैव भूतितीर्थान्यगोचरा पशुदा वित्तदा चैव सुखदा च महायशाः पयोदा गोमहिषदा सुविषाणा च भारत
MBh 9.45.28
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा एकचक्रा मेघरवा मेघमाला विरोचना
MBh 9.45.29
एताश्चान्याश्च बहवो मातरो भरतर्षभ कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः
MBh 9.45.30
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत सरला मधुराश्चैव यौवनस्थाः स्वलंकृताः
MBh 9.45.31
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः
MBh 9.45.32
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः
MBh 9.45.33
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः
MBh 9.45.34
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा
MBh 9.45.35
याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परंतप
MBh 9.45.36
वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा
MBh 9.45.37
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा
MBh 9.45.38
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः
MBh 9.45.39
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा नानाविचित्रवेषाश्च नानाभाषास्तथैव च
MBh 9.45.40
एते चान्ये च बहवो गणाः शत्रुभयंकराः अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते
MBh 9.45.41
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः गुहाय राजशार्दूल विनाशाय सुरद्विषाम्
MBh 9.45.42
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् तरुणादित्यवर्णां च पताकां भरतर्षभ
MBh 9.45.43
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्
MBh 9.45.44
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् उमा ददौ चारजसी वाससी सूर्यसप्रभे
MBh 9.45.45
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः
MBh 9.45.46
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्
MBh 9.45.47
पाशं तु वरुणो राजा बलवीर्यसमन्वितम् कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः समरेषु जयं चैव प्रददौ लोकभावनः
MBh 9.45.48
सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ततः पारिषदैश्चैव मातृभिश्च समन्वितः
MBh 9.45.49
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना सभेरीशङ्खमुरजा सायुधा सपताकिनी शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता
MBh 9.45.50
ततो देवनिकायास्ते भूतसेनागणास्तथा वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान्
MBh 9.45.51
पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान्
MBh 9.45.52
तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः
MBh 9.45.53
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः
MBh 9.45.54
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून्
MBh 9.45.55
सर्वेषां भूतसंघानां हर्षान्नादः समुत्थितः अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना
MBh 9.45.56
स निर्ययौ महासेनो महत्या सेनया वृतः वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम्
MBh 9.45.57
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप
MBh 9.45.58
स तया भीमया देवः शूलमुद्गरहस्तया गदामुसलनाराचशक्तितोमरहस्तया दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः
MBh 9.45.59
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः
MBh 9.45.60
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् आदधच्चात्मनस्तेजो हविषेद्ध इवानलः
MBh 9.45.61
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा उल्काज्वाला महाराज पपात वसुधातले
MBh 9.45.62
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ यथान्तकालसमये सुघोराः स्युस्तथा नृप
MBh 9.45.63
क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ
MBh 9.45.64
स शक्त्यस्त्रेण संग्रामे जघान भगवान्प्रभुः दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप
MBh 9.45.65
महिषं चाष्टभिः पद्मैर्वृतं संख्ये निजघ्निवान् त्रिपादं चायुतशतैर्जघान दशभिर्वृतम्
MBh 9.45.66
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः जघानानुचरैः सार्धं विविधायुधपाणिभिः
MBh 9.45.67
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु कुमारानुचरा राजन्पूरयन्तो दिशो दश
MBh 9.45.68
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे
MBh 9.45.69
पताकयावधूताश्च हताः केचित्सुरद्विषः केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः
MBh 9.45.70
एवं सुरद्विषोऽनेकान्बलवानाततायिनः जघान समरे वीरः कार्त्तिकेयो महाबलः
MBh 9.45.71
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः क्रौञ्चं पर्वतमासाद्य देवसंघानबाधत
MBh 9.45.72
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान्
MBh 9.45.73
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया
MBh 9.45.74
सशालस्कन्धसरलं त्रस्तवानरवारणम् पुलिनत्रस्तविहगं विनिष्पतितपन्नगम्
MBh 9.45.75
गोलाङ्गूलर्क्षसंघैश्च द्रवद्भिरनुनादितम् कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम्
MBh 9.45.76
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः
MBh 9.45.77
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः
MBh 9.45.78
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः
MBh 9.45.79
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा
MBh 9.45.80
बहुधा चैकधा चैव कृत्वात्मानं महात्मना शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः
MBh 9.45.81
एवंप्रभावो भगवानतो भूयश्च पावकिः क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः
MBh 9.45.82
ततः स भगवान्देवो निहत्य विबुधद्विषः सभाज्यमानो विबुधैः परं हर्षमवाप ह
MBh 9.45.83
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्
MBh 9.45.84
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः
MBh 9.45.85
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम्
MBh 9.45.86
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत
MBh 9.45.87
एकधा च द्विधा चैव चतुर्धा च महाबलम् योगिनामीश्वरं देवं शतशोऽथ सहस्रशः
MBh 9.45.88
एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम्
MBh 9.45.89
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु कुमारेण महाराज त्रिविष्टपमिवापरम्
MBh 9.45.90
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः
MBh 9.45.91
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः अभिषिक्तो महाराज देवसेनापतिः सुरैः
MBh 9.45.92
औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ
MBh 9.45.93
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च
MBh 9.45.94
उषित्वा रजनीं तत्र माधवः परवीरहा पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः
MBh 9.45.95
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 95 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.45local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷