🪷 Mahābhārata · Śalya-Parva · Chapter 26
The Book of Śalya · Parva 9 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 54 Shlokas
MBh 9.26.1
संजय उवाच
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः
हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ
MBh 9.26.2
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम्
MBh 9.26.3
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः
गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः
MBh 9.26.4
परिश्रान्तश्च नकुलः सहदेवश्च भारत
योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान्
MBh 9.26.5
सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः
MBh 9.26.6
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः
MBh 9.26.7
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः
MBh 9.26.8
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि
MBh 9.26.9
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम
यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम्
MBh 9.26.10
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी
MBh 9.26.11
तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत्
MBh 9.26.12
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः
ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः
MBh 9.26.13
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत्
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः
MBh 9.26.14
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः
MBh 9.26.15
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च
रथानां तु शते शिष्टे द्वे एव तु जनार्दन
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः
MBh 9.26.16
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः
MBh 9.26.17
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित्
MBh 9.26.18
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्
अद्याह्ना हि महाराजो हतामित्रो भविष्यति
MBh 9.26.19
न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः
MBh 9.26.20
अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम्
अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः
MBh 9.26.21
निकृत्या वै दुराचारो यानि रत्नानि सौबलः
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम्
MBh 9.26.22
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि
MBh 9.26.23
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति
MBh 9.26.24
नापयाति भयात्कृष्ण संग्रामाद्यदि चेन्मम
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्
MBh 9.26.25
मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम्
MBh 9.26.26
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना
अचोदयद्धयान्राजन्दुर्योधनबलं प्रति
MBh 9.26.27
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष
प्रययुः सिंहनादेन दुर्योधनजिघांसया
MBh 9.26.28
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान्
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः
MBh 9.26.29
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात्
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्
MBh 9.26.30
ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्
MBh 9.26.31
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्
MBh 9.26.32
प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते
दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत्
MBh 9.26.33
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह
MBh 9.26.34
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ
MBh 9.26.35
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्
MBh 9.26.36
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः
MBh 9.26.37
शिलाशितेन च विभो क्षुरप्रेण महायशाः
शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम्
MBh 9.26.38
सत्येषुमथ चादत्त योधानां मिषतां ततः
यथा सिंहो वने राजन्मृगं परिबुभुक्षितः
MBh 9.26.39
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान्
MBh 9.26.40
ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसंभृतम्
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति
MBh 9.26.41
तमर्जुनः पृषत्कानां शतेन भरतर्षभ
पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः
MBh 9.26.42
ततः शरं समादाय यमदण्डोपमं शितम्
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव
MBh 9.26.43
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना
सुशर्माणं समासाद्य बिभेद हृदयं रणे
MBh 9.26.44
स गतासुर्महाराज पपात धरणीतले
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान्
MBh 9.26.45
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान्
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम्
MBh 9.26.46
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान्
अभ्यगाद्भारतीं सेनां हतशेषां महारथः
MBh 9.26.47
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव
MBh 9.26.48
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत्
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि
MBh 9.26.49
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः
परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान्
MBh 9.26.50
ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत्
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ
MBh 9.26.51
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत
तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः
MBh 9.26.52
तथैव तावका राजन्पाण्डवेयान्महारथान्
शरवर्षेण महता समन्तात्पर्यवारयन्
MBh 9.26.53
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह
तावकानां च समरे पाण्डवेयैर्युयुत्सताम्
MBh 9.26.54
तत्र योधास्तदा पेतुः परस्परसमाहताः
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 25
- Next chapter · Śalya-Parva Ch 27 →
Sources and Connected Readings
Continue from these 54 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.26local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷