🪷 Mahābhārata · Śalya-Parva · Chapter 27

The Book of Śalya · Parva 9 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 63 Shlokas

MBh 9.27.1
संजय उवाच तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये शकुनिः सौबलो राजन्सहदेवं समभ्ययात्
MBh 9.27.2
ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् शरौघान्प्रेषयामास पतंगानिव शीघ्रगान् उलूकश्च रणे भीमं विव्याध दशभिः शरैः
MBh 9.27.3
शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः सायकानां नवत्या वै सहदेवमवाकिरत्
MBh 9.27.4
ते शूराः समरे राजन्समासाद्य परस्परम् विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः
MBh 9.27.5
तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः
MBh 9.27.6
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ
MBh 9.27.7
ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत अन्धकारमिवाकाशमभवत्तत्र तत्र ह
MBh 9.27.8
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून्
MBh 9.27.9
निहतानां हयानां च सहैव हययोधिभिः वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव
MBh 9.27.10
योधास्तत्र महाराज समासाद्य परस्परम् व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्
MBh 9.27.11
उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः
MBh 9.27.12
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः
MBh 9.27.13
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि क्रव्यादगणसंकीर्णा घोराभूत्पृथिवी विभो
MBh 9.27.14
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्
MBh 9.27.15
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् स विह्वलो महाराज रथोपस्थ उपाविशत्
MBh 9.27.16
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् सर्वसैन्यानि संक्रुद्धो वारयामास भारत
MBh 9.27.17
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम
MBh 9.27.18
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः
MBh 9.27.19
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः
MBh 9.27.20
इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन्
MBh 9.27.21
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
MBh 9.27.22
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत्
MBh 9.27.23
तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः
MBh 9.27.24
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव
MBh 9.27.25
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः
MBh 9.27.26
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः सहदेवं च सप्तत्या परीप्सन्पितरं रणे
MBh 9.27.27
तं भीमसेनः समरे विव्याध निशितैः शरैः शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः
MBh 9.27.28
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः
MBh 9.27.29
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् उलूकस्य महाराज भल्लेनापाहरच्छिरः
MBh 9.27.30
स जगाम रथाद्भूमिं सहदेवेन पातितः रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि
MBh 9.27.31
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्
MBh 9.27.32
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः
MBh 9.27.33
तानपास्य शरान्मुक्ताञ्शरसंघैः प्रतापवान् सहदेवो महाराज धनुश्चिच्छेद संयुगे
MBh 9.27.34
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत्
MBh 9.27.35
तमापतन्तं सहसा घोररूपं विशां पते द्विधा चिच्छेद समरे सौबलस्य हसन्निव
MBh 9.27.36
असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि
MBh 9.27.37
ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः
MBh 9.27.38
तामापतन्तीं सहसा शरैः काञ्चनभूषणैः त्रिधा चिच्छेद समरे सहदेवो हसन्निव
MBh 9.27.39
सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा
MBh 9.27.40
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः
MBh 9.27.41
अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन्
MBh 9.27.42
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् शरैरनेकसाहस्रैर्वारयामास संयुगे
MBh 9.27.43
ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् आससाद रणे यान्तं सहदेवोऽथ सौबलम्
MBh 9.27.44
स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः
MBh 9.27.45
स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम्
MBh 9.27.46
उवाच चैनं मेधावी निगृह्य स्मारयन्निव क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव
MBh 9.27.47
यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते
MBh 9.27.48
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः
MBh 9.27.49
अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना
MBh 9.27.50
एवमुक्त्वा महाराज सहदेवो महाबलः संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह
MBh 9.27.51
अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव
MBh 9.27.52
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत्
MBh 9.27.53
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः
MBh 9.27.54
ततो भूयो महाराज सहदेवः प्रतापवान् शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम्
MBh 9.27.55
ततस्तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे प्रासेन जाम्बूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम्
MBh 9.27.56
माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे भल्लैस्त्रिभिर्युगपत्संचकर्त; ननाद चोच्चैस्तरसाजिमध्ये
MBh 9.27.57
तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूयः
MBh 9.27.58
शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः
MBh 9.27.59
स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन प्रावेरयत्कुपितः पाण्डुपुत्रो; यत्तत्कुरूणामनयस्य मूलम्
MBh 9.27.60
हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम् योधास्त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः
MBh 9.27.61
विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघोषेण समाहताश्च भयार्दिता भग्नरथाश्वनागाः; पदातयश्चैव सधार्तराष्ट्राः
MBh 9.27.62
ततो रथाच्छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः शङ्खान्प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान्हर्षयन्तः
MBh 9.27.63
तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवमाजौ दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 63 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.27local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷