🪷 Mahābhārata · Śalya-Parva · Chapter 27
The Book of Śalya · Parva 9 · 63 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 63 Shlokas
MBh 9.27.1
[स]
तस्मिन परवृत्ते संग्रामे नरवाजि गजक्षये
शकुनिः सौबलॊ राजन सहदेवं समभ्ययात
MBh 9.27.2
ततॊ ऽसयापततस तूर्णं सहदेवः परतापवान
शरौघान परेषयाम आस पतङ्गान इव शीघ्रगान
उलूकश च रणे भीमं विव्याध दशभिः शरैः
MBh 9.27.3
शकुनिस तु महाराज भीमं विद्ध्वा तरिभिः शरैः
सायकानां नवत्या वै सहदेवम अवाकिरत
MBh 9.27.4
ते शूराः समरे राजन समासाद्य परस्परम
विव्यधुर निशितैर बाणैः कङ्कबर्हिण वाजितैः
सवर्णपुङ्खैः शिला धौतैर आ कर्णात परहितैः शरैः
MBh 9.27.5
तेषां चापा भुजॊत्सृष्टा शरवृष्टिर विशां पते
आच्छादयद दिशः सर्वा धाराभिर इव तॊयदः
MBh 9.27.6
ततः करुद्धॊ रणे भीमः सहदेवश च भारत
चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ
MBh 9.27.7
ताभ्यां शरशतैश छन्नं तद बलं तव भारत
अन्धकारम इवाकाशम अभवत तत्र तत्र ह
MBh 9.27.8
अश्वैर विपरिधावद्भिः शरच छन्नैर विशां पते
तत्र तत्र कृतॊ मार्गॊ विकर्षद्भिर हतान बहून
MBh 9.27.9
निहतानां हयानां च सहैव हययॊधिभिः
वर्मभिर विनिकृत्तैश च परासैश छिन्नैश च मारिष
संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव
MBh 9.27.10
यॊधास तत्र महाराज समासाद्य परस्परम
वयचरन्त रणे करुद्धा विनिघ्नन्तः परस्परम
MBh 9.27.11
उद्वृत्तनयनै रॊषात संदष्टौष्ठ पुटैर मुखैः
सकुण्डलैर मही छन्ना पद्मकिञ्जल्क संनिभैः
MBh 9.27.12
भुजैश छिनैर महाराज नागराजकरॊपमैः
साङ्गदैः सतनुत्रैश च सासि परासपरश्वधैः
MBh 9.27.13
कबन्धैर उत्थितैश छिन्नैर नृत्यद्भिश चापरैर युधि
करव्यादगणसंकीर्णा घॊराभुत पृथिवी विभॊ
MBh 9.27.14
अल्पावशिष्टे सैन्ये तु कौरवेयान महाहवे
परहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम
MBh 9.27.15
एतस्मिन्न अन्तरे शूरः सौबलेयः परतापवान
परासेन साहदेवस्य शिरसि पराहरद भृशम
स विह्वलॊ महाराज रथॊपस्थ उपाविशत
MBh 9.27.16
सहदेवं तथा दृष्ट्वा भीमसेनः परतापवान
सर्वसैन्यानि संक्रुद्धॊ वारयाम आस भारत
MBh 9.27.17
निर्बिभेद च नाराचैः शतशॊ ऽथ सहस्रशः
विनिर्भिद्याकरॊच चैव सिंहनादम अरिंदम
MBh 9.27.18
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः
पराद्रवन सहसा भीताः शकुनेश च पदानुगाः
MBh 9.27.19
परभग्नान अथ तान दृष्ट्वा राजा दुर्यॊधनॊ ऽबरवीत
निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः
MBh 9.27.20
इह कीर्तिं समाधाय परेत्य लॊकान समश्नुते
पराणाञ जहाति यॊ वीरॊ युधि पृष्ठम अदर्शयन
MBh 9.27.21
एवम उक्तास तु ते राज्ञा सौबलस्य पदानुगाः
पाण्डवान अभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम
MBh 9.27.22
दरवद्भिस तत्र राजेन्द्र कृतः शब्दॊ ऽतिदारुणः
कषुब्धसागरसंकाशः कषुभितः सर्वतॊ ऽभवत
MBh 9.27.23
तांस तदापततॊ दृष्ट्वा सौबलस्य पदानुगान
परत्युद्ययुर महाराज पाण्डवा विजये वृताः
MBh 9.27.24
परत्याश्वस्य च दुर्धर्षः सहदेवॊ विशां पते
शकुनिं दशभिर विद्ध्वा हयांश चास्य तरिभिः शरैः
धनुश चिच्छेद च शरैः सौबलस्य हसन्न इव
MBh 9.27.25
अथान्यद धनुर आदाय शकुनिर युद्धदुर्मदः
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः
MBh 9.27.26
उलूकॊ ऽपि महाराज भीमं विव्याध सप्तभिः
सहदेवं च सप्तत्या परीप्सन पितरं रणे
MBh 9.27.27
तं भीमसेनः समरे विव्याध निशितैः शरैः
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश च तरिभिस तरिभिः
MBh 9.27.28
ते हन्यमाना भीमेन नाराचैस तैलपायितैः
सहदेवं रणे करुद्धाश छादयञ शरवृष्टिभिः
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः
MBh 9.27.29
ततॊ ऽसयापततः शूरः सहदेवः परतापवान
उलूकस्य महाराज भल्लेनापाहरच छिरः
MBh 9.27.30
स जगाम रथाद भूमिं सहदेवेन पातितः
रुधिराप्लुत सर्वाङ्गॊ नन्दयन पाण्डवान युधि
MBh 9.27.31
पुत्रं तु निहतं दृष्ट्वा शकुनिस तत्र भारत
साश्रुकण्ठॊ विनिःश्वस्य कषत्तुर वाक्यम अनुस्मरन
MBh 9.27.32
चिन्तयित्वा मुहूर्तं सबाष्पपूर्णेक्षणः शवसन
सहदेवं समासाद्य तरिभिर विव्याध सायकैः
MBh 9.27.33
तान अपास्य शरान मुक्ताञ शरसंघैः परतापवान
सहदेवॊ महाराज धनुश चिच्छेद संयुगे
MBh 9.27.34
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस तदा
परगृह्य विपुलं खड्गं सहदेवाय पराहिणॊत
MBh 9.27.35
तम आपतन्तं सहसा घॊररूपं विशां पते
दविधा चिच्छेद समरे सौबलस्य हसन्न इव
MBh 9.27.36
असिं दृष्ट्वा दविधा छिन्नं परगृह्य महतीं गदाम
पराहिणॊत सहसेवाय सा मॊघा नयपतद भुवि
MBh 9.27.37
ततः शक्तिं महाघॊरां कालरात्रिम इवॊद्यताम
परेषयाम आस संक्रुद्धः पाण्डवं परति सौबलः
MBh 9.27.38
ताम आपतन्तीं सहसा शरैः काञ्चनभूषणैः
तरिधा चिच्छेद समरे सहदेवॊ हसन्न इव
MBh 9.27.39
सा पपात तरिधा छिन्ना भूमौ कनकभूषणा
शीर्यमाणा यथा दीप्ता गगनाद वै शतह्रदा
MBh 9.27.40
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम
दुद्रुवुस तावकाः सर्वे भये जाते ससौबलाः
MBh 9.27.41
अथॊत्क्रुष्टं महद धयासीत पाण्डवैर जितकाशिभिः
धार्तराष्ट्रास ततः सर्वे परायशॊ विमुखाभवन
MBh 9.27.42
तान वै विमनसॊ दृष्ट्वा माद्रीपुत्रः परतापवान
शरैर अनेकसाहस्रैर वारयाम आस संयुगे
MBh 9.27.43
ततॊ गान्धारकैर गुप्तं पृष्ठैर अश्वैर जये धृतम
आससाद रणे यान्तं सहदेवॊ ऽथ सौबलम
MBh 9.27.44
सवम अंशम अवशिष्टं स संस्मृत्य शकुनिं नृप
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात
अधिज्यं बलवत कृत्वा वयाक्षिपन सुमहद धनुः
MBh 9.27.45
स सौबलम अभिद्रुत्य गृध्रपत्रैः शिलाशितैः
भृशम अभ्यहनत करुद्धस तॊत्त्रैर इव महाद्विपम
MBh 9.27.46
उवाच चैनं मेधावी निगृह्य समारयन्न इव
कषत्रधर्मे सथितॊ भूत्वा युध्यस्व पुरुषॊ भव
MBh 9.27.47
यत तदा हृष्यसे मूढ गलहन्न अक्षैः सभा तले
फलम अद्य परपद्यस्व कर्मणस तस्य दुर्मते
MBh 9.27.48
निहतास ते दुरात्मानॊ ये ऽसमान अवहसन पुरा
दुर्यॊधनः कुलाङ्गारः शिष्टस तवं तस्य मातुलः
MBh 9.27.49
अद्य ते विहनिष्यामि कषुरेणॊन्मथितं शिरः
वृक्षात फलम इवॊद्धृत्य लगुडेन परमाथिना
MBh 9.27.50
एवम उक्त्वा महाराज सहदेवॊ महाबलः
संक्रुद्धॊ नरशार्दूलॊ वेगेनाभिजगाम ह
MBh 9.27.51
अभिगम्य तु दुर्धर्षः सहदेवॊ युधां पतिः
विकृष्य बलवच चापं करॊधेन परहसन्न इव
MBh 9.27.52
शकुनिं दशभिर विद्ध्वा चतुर्भिश चास्य वाजिनः
छत्त्रं धवजं धनुश चास्य छित्त्वा सिंह इवानदत
MBh 9.27.53
छिन्नध्वजधनुश छत्त्रः सहदेवेन सौबलः
ततॊ विद्धश च बहुभिः सर्वमर्मसु सायकैः
MBh 9.27.54
ततॊ भूयॊ महाराज सहदेवः परतापवान
शकुनेः परेषयाम आस शरवृष्टिं दुरासदाम
MBh 9.27.55
ततस तु करुद्धः सुबलस्य पुत्रॊ; माद्री सुतं सहदेवं विमर्दे
परासेन जाम्बूनदभूषणेन; जिघांसुर एकॊ ऽभिपपात शीघ्रम
MBh 9.27.56
माद्री सुतस तस्य समुद्यतं तं; परासं सुवृत्तौ च भुजौ रणाग्रे
भल्लैस तरिभिर युगपत संचकर्त; ननाद चॊच्चैस तरसाजिमध्ये
MBh 9.27.57
तस्याशु कारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन
भल्लेन सर्वावरणातिगेन; शिरः शरीरात परममाथ भूयः
MBh 9.27.58
शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन
हृतॊत्तमाङ्गॊ युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः
MBh 9.27.59
स तच्छिरॊ वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन
परावेरयत कुपितः पाण्डुपुत्रॊ; यत तत कुरूणाम अनयस्य मूलम
MBh 9.27.60
हृतॊत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम
यॊधास तवदीया भयनष्ट सत्त्वा; दिशः परजग्मुः परगृहीतशस्त्राः
MBh 9.27.61
विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघॊषेण समाहताश च
भयार्दिता भग्नरथाश्वनागाः; पदातयश चैव सधार्तराष्ट्राः
MBh 9.27.62
ततॊ रथाच छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः
शङ्खान परदध्मुः समरे परहृष्टाः; सकेशवाः सैङ्किकान हर्षयन्तः
MBh 9.27.63
तं चापि सर्वे परतिपूजयन्तॊ; हृष्टा बरुवाणाः सहदेवम आजौ
दिष्ट्या हतॊ नैकृतिकॊ दुरात्मा; सहात्मजॊ वीर रणे तवयेति
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 26
- Next chapter · Śalya-Parva Ch 28 →
🪷 जय व्यास भगवान् 🪷