🪷 Mahābhārata · Śalya-Parva · Chapter 28

The Book of Śalya · Parva 9 · 92 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 92 Shlokas

MBh 9.28.1
संजय उवाच ततः क्रुद्धा महाराज सौबलस्य पदानुगाः त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन्
MBh 9.28.2
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः
MBh 9.28.3
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः
MBh 9.28.4
प्रगृहीतायुधान्बाहून्योधानामभिधावताम् भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि
MBh 9.28.5
ते हताः प्रत्यपद्यन्त वसुधां विगतासवः त्वरिता लोकवीरेण प्रहताः सव्यसाचिना
MBh 9.28.6
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् हतशेषान्समानीय क्रुद्धो रथशतान्विभो
MBh 9.28.7
कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः
MBh 9.28.8
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत
MBh 9.28.9
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्
MBh 9.28.10
तानभ्यापततः शीघ्रं हतशेषान्महारणे शरैराशीविषाकारैः पाण्डवाः समवाकिरन्
MBh 9.28.11
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम्
MBh 9.28.12
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा
MBh 9.28.13
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ततो निःशेषमभवत्तत्सैन्यं तव भारत
MBh 9.28.14
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः
MBh 9.28.15
तेषु राजसहस्रेषु तावकेषु महात्मसु एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः
MBh 9.28.16
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे
MBh 9.28.17
मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्
MBh 9.28.18
दुर्योधनो महाराज कश्मलेनाभिसंवृतः अपयाने मनश्चक्रे विहीनबलवाहनः
MBh 9.28.19
धृतराष्ट्र उवाच निहते मामके सैन्ये निःशेषे शिबिरे कृते पाण्डवानां बलं सूत किं नु शेषमभूत्तदा एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय
MBh 9.28.20
यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः
MBh 9.28.21
संजय उवाच रथानां द्वे सहस्रे तु सप्त नागशतानि च पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः
MBh 9.28.22
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः
MBh 9.28.23
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः नापश्यत्समरे कंचित्सहायं रथिनां वरः
MBh 9.28.24
नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम् हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्
MBh 9.28.25
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम्
MBh 9.28.26
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः
MBh 9.28.27
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा महद्वैशसमस्माकं क्षत्रियाणां च संयुगे
MBh 9.28.28
एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम्
MBh 9.28.29
पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति
MBh 9.28.30
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः
MBh 9.28.31
तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत
MBh 9.28.32
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे महावनमिव छिन्नमभवत्तावकं बलम्
MBh 9.28.33
अनेकशतसाहस्रे बले दुर्योधनस्य ह नान्यो महारथो राजञ्जीवमानो व्यदृश्यत
MBh 9.28.34
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात्
MBh 9.28.35
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता
MBh 9.28.36
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा
MBh 9.28.37
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् मुच्यतां संजयो जीवन्न हन्तव्यः कथंचन
MBh 9.28.38
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय
MBh 9.28.39
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः
MBh 9.28.40
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्
MBh 9.28.41
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम्
MBh 9.28.42
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे मुहूर्तं नाशकं वक्तुं किंचिद्दुःखपरिप्लुतः
MBh 9.28.43
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे
MBh 9.28.44
मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः
MBh 9.28.45
तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम्
MBh 9.28.46
त्रयः किल रथाः शिष्टास्तावकानां नराधिप इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्
MBh 9.28.47
स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत
MBh 9.28.48
त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः
MBh 9.28.49
ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम् दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत
MBh 9.28.50
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः
MBh 9.28.51
आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम्
MBh 9.28.52
एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः अस्तम्भयत तोयं च मायया मनुजाधिपः
MBh 9.28.53
तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् अपश्यं सहितानेकस्तं देशं समुपेयुषः
MBh 9.28.54
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् भोजं च कृतवर्माणं सहिताञ्शरविक्षतान्
MBh 9.28.55
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् उपयाय च मामूचुर्दिष्ट्या जीवसि संजय
MBh 9.28.56
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् कच्चिद्दुर्योधनो राजा स नो जीवति संजय
MBh 9.28.57
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः
MBh 9.28.58
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्
MBh 9.28.59
अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः पर्याप्ता हि वयं तेन सह योधयितुं परान्
MBh 9.28.60
ते तु तत्र चिरं कालं विलप्य च महारथाः प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे
MBh 9.28.61
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः
MBh 9.28.62
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्
MBh 9.28.63
ततो वृद्धा महाराज योषितां रक्षणो नराः राजदारानुपादाय प्रययुर्नगरं प्रति
MBh 9.28.64
तत्र विक्रोशतीनां च रुदतीनां च सर्वशः प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसंक्षयम्
MBh 9.28.65
ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः कुरर्य इव शब्देन नादयन्त्यो महीतलम्
MBh 9.28.66
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह
MBh 9.28.67
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते
MBh 9.28.68
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः राजदारानुपादाय प्रययुर्नगरं प्रति
MBh 9.28.69
वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च समादाय ययुस्तूर्णं नगरं दाररक्षिणः
MBh 9.28.70
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति
MBh 9.28.71
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ददृशुस्ता महाराज जना यान्तीः पुरं प्रति
MBh 9.28.72
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः
MBh 9.28.73
आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति ययुर्मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः
MBh 9.28.74
अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति
MBh 9.28.75
तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत्
MBh 9.28.76
जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः
MBh 9.28.77
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया विद्रुतानि च सर्वाणि शिबिराणि समन्ततः
MBh 9.28.78
दुर्योधनस्य सचिवा ये केचिदवशेषिताः राजदारानुपादाय व्यधावन्नगरं प्रति
MBh 9.28.79
प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च
MBh 9.28.80
एतमर्थं महाबाहुरुभयोः स न्यवेदयत् तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत्
MBh 9.28.81
ततः स रथमास्थाय द्रुतमश्वानचोदयत् असंभावितवांश्चापि राजदारान्पुरं प्रति
MBh 9.28.82
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः
MBh 9.28.83
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम्
MBh 9.28.84
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि
MBh 9.28.85
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः एतन्मे कारणं सर्वं विस्तरेण निवेदय
MBh 9.28.86
युयुत्सुरुवाच निहते शकुनौ तात सज्ञातिसुतबान्धवे हतशेषपरीवारो राजा दुर्योधनस्ततः स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्
MBh 9.28.87
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति
MBh 9.28.88
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात्
MBh 9.28.89
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम्
MBh 9.28.90
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम्
MBh 9.28.91
प्राप्तकालमिदं सर्वं भवतो भरतक्षये अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम्
MBh 9.28.92
एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 92 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.28local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷