🪷 Mahābhārata · Śalya-Parva · Chapter 25
The Book of Śalya · Parva 9 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 9.25.1
संजय उवाच
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत
वध्यमाने बले चैव भीमसेनेन संयुगे
MBh 9.25.2
चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम्
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम्
MBh 9.25.3
समेत्य समरे राजन्हतशेषाः सुतास्तव
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्
MBh 9.25.4
दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः
भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम्
MBh 9.25.5
ततो भीमो महाराज स्वरथं पुनरास्थितः
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु
MBh 9.25.6
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे
भीमसेनमपासेधन्प्रवणादिव कुञ्जरम्
MBh 9.25.7
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले
MBh 9.25.8
ततोऽपरेण भल्लेन सर्वावरणभेदिना
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः
MBh 9.25.9
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव
पातयामास कौरव्यं रथोपस्थादरिंदमः
स पपात रथाद्राजन्भूमौ तूर्णं ममार च
MBh 9.25.10
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष
शतेन गृध्रवाजानां शराणां नतपर्वणाम्
MBh 9.25.11
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः
MBh 9.25.12
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः
MBh 9.25.13
ततोऽपरेण तीक्ष्णेन नाराचेन परंतपः
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे
MBh 9.25.14
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः
MBh 9.25.15
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव
एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ
MBh 9.25.16
ततो यतन्तमपरमभिवीक्ष्य सुतं तव
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम्
MBh 9.25.17
दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात्
MBh 9.25.18
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम्
विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून्
MBh 9.25.19
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्
MBh 9.25.20
ततोऽन्यद्धनुरादाय भीमसेनो महारथः
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्
MBh 9.25.21
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्
यादृशं समरे पूर्वं जम्भवासवयोरभूत्
MBh 9.25.22
तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा
MBh 9.25.23
ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैः
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत्
MBh 9.25.24
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना
भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः
MBh 9.25.25
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष
सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम्
MBh 9.25.26
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम्
MBh 9.25.27
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी
अथास्याददतः खड्गं शतचन्द्रं च भानुमत्
क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः
MBh 9.25.28
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः
पपात कायः स रथाद्वसुधामनुनादयन्
MBh 9.25.29
तस्मिन्निपतिते वीरे तावका भयमोहिताः
अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः
MBh 9.25.30
तानापतत एवाशु हतशेषाद्बलार्णवात्
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान्
ते तु तं वै समासाद्य परिवव्रुः समन्ततः
MBh 9.25.31
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान्
MBh 9.25.32
ततः पञ्चशतान्हत्वा सवरूथान्महारथान्
जघान कुञ्जरानीकं पुनः सप्तशतं युधि
MBh 9.25.33
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते
MBh 9.25.34
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो
MBh 9.25.35
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत
MBh 9.25.36
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान्
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्
MBh 9.25.37
हतभूयिष्ठयोधा तु तव सेना विशां पते
किंचिच्छेषा महाराज कृपणा समपद्यत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 24
- Next chapter · Śalya-Parva Ch 26 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.25local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷