🪷 Mahābhārata · Śalya-Parva · Chapter 24

The Book of Śalya · Parva 9 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 56 Shlokas

MBh 9.24.1
संजय उवाच अस्यतां यतमानानां शूराणामनिवर्तिनाम् संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः
MBh 9.24.2
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः
MBh 9.24.3
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः
MBh 9.24.4
हतधुर्या रथाः केचिद्धतसूतास्तथापरे भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते
MBh 9.24.5
अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः
MBh 9.24.6
केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः
MBh 9.24.7
बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते
MBh 9.24.8
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः
MBh 9.24.9
तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे
MBh 9.24.10
तानपास्य गताः केचित्पुनरेव युयुत्सवः कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः
MBh 9.24.11
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् वर्माणि च समारोप्य केचिद्भरतसत्तम
MBh 9.24.12
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्
MBh 9.24.13
सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन्
MBh 9.24.14
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः
MBh 9.24.15
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्
MBh 9.24.16
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः नाकुलिश्च शतानीको रथानीकमयोधयन्
MBh 9.24.17
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः
MBh 9.24.18
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप बाणसंघाननेकान्वै प्रेषयामास भारत
MBh 9.24.19
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः
MBh 9.24.20
सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे सारथेश्चास्य भल्लेन शिरः कायादपाहरत्
MBh 9.24.21
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः अपाक्रामद्धतरथो नातिदूरमरिंदमः
MBh 9.24.22
दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः तव पुत्रो महाराज प्रययौ यत्र सौबलः
MBh 9.24.23
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन्
MBh 9.24.24
ते वृताः समरे पञ्च गजानीकेन भारत अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव
MBh 9.24.25
ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः
MBh 9.24.26
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत्
MBh 9.24.27
तत्रैकबाणनिहतानपश्याम महागजान् पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना
MBh 9.24.28
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः करेण गृह्य महतीं गदामभ्यपतद्बली अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः
MBh 9.24.29
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे
MBh 9.24.30
गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् धावमानानपश्याम कुञ्जरान्पर्वतोपमान्
MBh 9.24.31
प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः
MBh 9.24.32
तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः
MBh 9.24.33
युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः
MBh 9.24.34
धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते
MBh 9.24.35
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ
MBh 9.24.36
अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः
MBh 9.24.37
अपश्यमाना राजानं वर्तमाने जनक्षये मन्वाना निहतं तत्र तव पुत्रं महारथाः विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्
MBh 9.24.38
आहुः केचिद्धते सूते प्रयातो यत्र सौबलः अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः
MBh 9.24.39
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति
MBh 9.24.40
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन्
MBh 9.24.41
इदं सर्वं बलं हन्मो येन स्म परिवारिताः एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः
MBh 9.24.42
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्
MBh 9.24.43
कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः रथानीकं परित्यज्य शूराः सुदृढधन्विनः
MBh 9.24.44
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान्
MBh 9.24.45
दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान् पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा विवर्णमुखभूयिष्ठमभवत्तावकं बलम्
MBh 9.24.46
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः
MBh 9.24.47
आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः
MBh 9.24.48
संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् जितास्तेन वयं सर्वे व्यपयाम रणात्ततः
MBh 9.24.49
अथापश्यं सात्यकिं तमुपायान्तं महारथम् रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे
MBh 9.24.50
धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनः पतितो माधवानीकं दुष्कृती नरकं यथा तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम्
MBh 9.24.51
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि
MBh 9.24.52
ततो मुहूर्तादिव तद्गजानीकमवध्यत गदया भीमसेनेन नाराचैरर्जुनेन च
MBh 9.24.53
प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः नातिप्रसिद्धेव गतिः पाण्डवानामजायत
MBh 9.24.54
रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः पाण्डवानां महाराज व्यपकर्षन्महागजान्
MBh 9.24.55
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः अपश्यन्तो रथानीके दुर्योधनमरिंदमम् राजानं मृगयामासुस्तव पुत्रं महारथम्
MBh 9.24.56
परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 56 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.24local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷