🪷 Mahābhārata · Śalya-Parva · Chapter 23

The Book of Śalya · Parva 9 · 64 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 64 Shlokas

MBh 9.23.1
संजय उवाच तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः
MBh 9.23.2
स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः
MBh 9.23.3
शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ असौ तिष्ठति कौरव्यो रणमध्ये महारथः
MBh 9.23.4
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः
MBh 9.23.5
यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्
MBh 9.23.6
एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः
MBh 9.23.7
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः
MBh 9.23.8
दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम्
MBh 9.23.9
जहि राजन्रथानीकमश्वाः सर्वे जिता मया नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः
MBh 9.23.10
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा
MBh 9.23.11
श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम्
MBh 9.23.12
सर्वे विवृततूणीराः प्रगृहीतशरासनाः शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे
MBh 9.23.13
ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः
MBh 9.23.14
तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः
MBh 9.23.15
चोदयाश्वानसंभ्रान्तः प्रविशैतद्बलार्णवम् अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः
MBh 9.23.16
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन वर्तमानस्य महतः समासाद्य परस्परम्
MBh 9.23.17
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्
MBh 9.23.18
समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव अस्मानासाद्य संजातं गोष्पदोपममच्युत
MBh 9.23.19
हते भीष्मे च संदध्याच्छिवं स्यादिह माधव न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः
MBh 9.23.20
उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः
MBh 9.23.21
तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले न जाने कारणं किं नु येन युद्धमवर्तत
MBh 9.23.22
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् पतिते शंतनोः पुत्रे येऽकार्षुः संयुगं पुनः
MBh 9.23.23
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे राधेये च विकर्णे च नैवाशाम्यत वैशसम्
MBh 9.23.24
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम्
MBh 9.23.25
श्रुतायुषि हते शूरे जलसंधे च पौरवे श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्
MBh 9.23.26
भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्
MBh 9.23.27
जयद्रथे च निहते राक्षसे चाप्यलायुधे बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम्
MBh 9.23.28
भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे दुःशासने च निहते नैवाशाम्यत वैशसम्
MBh 9.23.29
दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम्
MBh 9.23.30
अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम्
MBh 9.23.31
को नु राजकुले जातः कौरवेयो विशेषतः निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात्
MBh 9.23.32
गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम्
MBh 9.23.33
यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम्
MBh 9.23.34
येन शांतनवो भीष्मो द्रोणो विदुर एव च प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम्
MBh 9.23.35
मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन तथा माता हितं वाक्यं भाषमाणा हितैषिणी प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः
MBh 9.23.36
कुलान्तकरणो व्यक्तं जात एष जनार्दन तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते नैष दास्यति नो राज्यमिति मे मतिरच्युत
MBh 9.23.37
उक्तोऽहं बहुशस्तात विदुरेण महात्मना न जीवन्दास्यते भागं धार्तराष्ट्रः कथंचन
MBh 9.23.38
यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम्
MBh 9.23.39
न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः
MBh 9.23.40
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः यदुक्तं वचनं तेन विदुरेण महात्मना
MBh 9.23.41
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः
MBh 9.23.42
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति
MBh 9.23.43
तदिदं वचनं तेषां निरुक्तं वै जनार्दन क्षयं याता हि राजानो दुर्योधनकृते भृशम्
MBh 9.23.44
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते
MBh 9.23.45
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति तदन्तं हि भवेद्वैरमनुमानेन माधव
MBh 9.23.46
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया विदुरस्य च वाक्येन चेष्टया च दुरात्मनः
MBh 9.23.47
संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे
MBh 9.23.48
क्षेममद्य करिष्यामि धर्मराजस्य माधव हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः
MBh 9.23.49
संजय उवाच अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना तद्बलौघममित्राणामभीतः प्राविशद्रणे
MBh 9.23.50
शरासनवरं घोरं शक्तिकण्टकसंवृतम् गदापरिघपन्थानं रथनागमहाद्रुमम्
MBh 9.23.51
हयपत्तिलताकीर्णं गाहमानो महायशाः व्यचरत्तत्र गोविन्दो रथेनातिपताकिना
MBh 9.23.52
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः
MBh 9.23.53
ततः प्रायाद्रथेनाजौ सव्यसाची परंतपः किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः
MBh 9.23.54
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् इषुभिश्छाद्यमानानां समरे सव्यसाचिना
MBh 9.23.55
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः
MBh 9.23.56
नरान्नागान्समाहत्य हयांश्चापि विशां पते अपतन्त रणे बाणाः पतंगा इव घोषिणः
MBh 9.23.57
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा
MBh 9.23.58
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः
MBh 9.23.59
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः समासीदन्त कौरव्या वध्यमानाः शितैः शरैः
MBh 9.23.60
शरचापधरः पार्थः प्रज्वलन्निव भारत ददाह समरे योधान्कक्षमग्निरिव ज्वलन्
MBh 9.23.61
यथा वनान्ते वनपैर्विसृष्टः; कक्षं दहेत्कृष्णगतिः सघोषः भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी
MBh 9.23.62
एवं स नाराचगणप्रतापी; शरार्चिरुच्चावचतिग्मतेजाः ददाह सर्वां तव पुत्रसेना;ममृष्यमाणस्तरसा तरस्वी
MBh 9.23.63
तस्येषवः प्राणहराः सुमुक्ता; नासज्जन्वै वर्मसु रुक्मपुङ्खाः न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा
MBh 9.23.64
अनेकरूपाकृतिभिर्हि बाणै;र्महारथानीकमनुप्रविश्य स एव एकस्तव पुत्रसेनां; जघान दैत्यानिव वज्रपाणिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 64 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.23local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷