🪷 Mahābhārata · Śalya-Parva · Chapter 22
The Book of Śalya · Parva 9 · 88 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 88 Shlokas
MBh 9.22.1
संजय उवाच
वर्तमाने तथा युद्धे घोररूपे भयानके
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः
MBh 9.22.2
तांस्तु यत्नेन महता संनिवार्य महारथान्
पुत्रस्ते योधयामास पाण्डवानामनीकिनीम्
MBh 9.22.3
निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः
संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्
MBh 9.22.4
तावकानां परेषां च देवासुररणोपमम्
परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः
MBh 9.22.5
अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम्
तेषां क्षयो महानासीद्युध्यतामितरेतरम्
MBh 9.22.6
ततो युधिष्ठिरो राजा क्रोधेन महता युतः
जिगीषमाणः संग्रामे धार्तराष्ट्रान्सराजकान्
MBh 9.22.7
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः
MBh 9.22.8
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्
MBh 9.22.9
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे
प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः
MBh 9.22.10
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः
अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति
MBh 9.22.11
ते समन्तान्महाराज परिवार्य युधिष्ठिरम्
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम्
MBh 9.22.12
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः
रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः
आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्
MBh 9.22.13
ततः प्रववृते रौद्रः संग्रामः शोणितोदकः
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः
MBh 9.22.14
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम्
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन्
MBh 9.22.15
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः
न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम्
MBh 9.22.16
वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः
वध्यमानेषु योधेषु तावकेष्वितरेषु च
MBh 9.22.17
निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः
उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम्
MBh 9.22.18
अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु
धावमानेषु योधेषु जयगृद्धिषु मारिष
MBh 9.22.19
संहारे सर्वतो जाते पृथिव्यां शोकसंभवे
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा
MBh 9.22.20
निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः
चचाल शब्दं कुर्वाणा सपर्वतवना मही
MBh 9.22.21
सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम्
MBh 9.22.22
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः
अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम्
MBh 9.22.23
एतान्घोराननादृत्य समुत्पातान्सुदारुणान्
पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः
MBh 9.22.24
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान्
MBh 9.22.25
ततो नः संप्रयातानां मद्रयोधास्तरस्विनः
हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा
MBh 9.22.26
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्
MBh 9.22.27
ततो हतं परैस्तत्र मद्रराजबलं तदा
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम्
MBh 9.22.28
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः
MBh 9.22.29
अनीकं दशसाहस्रमश्वानां भरतर्षभ
आसीद्गान्धारराजस्य विमलप्रासयोधिनाम्
MBh 9.22.30
बलेन तेन विक्रम्य वर्तमाने जनक्षये
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः
MBh 9.22.31
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः
अभज्यत महाराज पाण्डूनां सुमहद्बलम्
MBh 9.22.32
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात्
अभ्यचोदयदव्यग्रः सहदेवं महाबलम्
MBh 9.22.33
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः
सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम्
MBh 9.22.34
गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि
रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ
MBh 9.22.35
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया
पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि
MBh 9.22.36
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्
MBh 9.22.37
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम्
MBh 9.22.38
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्
जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान्
MBh 9.22.39
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान्
MBh 9.22.40
ते तत्र सादिनः शूराः सौबलस्य महद्बलम्
गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन्
MBh 9.22.41
तदुद्यतगदाप्रासमकापुरुषसेवितम्
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव
MBh 9.22.42
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत
MBh 9.22.43
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ
ज्योतिषामिव संपातमपश्यन्कुरुपाण्डवाः
MBh 9.22.44
ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते
संपतन्तीभिराकाशमावृतं बह्वशोभत
MBh 9.22.45
प्रासानां पततां राजन्रूपमासीत्समन्ततः
शलभानामिवाकाशे तदा भरतसत्तम
MBh 9.22.46
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः
MBh 9.22.47
अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम्
अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः
MBh 9.22.48
ततोऽभवत्तमो घोरं सैन्येन रजसा वृते
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान्
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति
MBh 9.22.49
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु
केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः
MBh 9.22.50
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः
मल्ला इव समासाद्य निजघ्नुरितरेतरम्
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः
MBh 9.22.51
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः
MBh 9.22.52
रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः
MBh 9.22.53
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित्
साश्वारोहैर्हतैरश्वैरावृते वसुधातले
MBh 9.22.54
रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः
सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः
MBh 9.22.55
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते
षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः
MBh 9.22.56
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्
षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम्
MBh 9.22.57
अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः
सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः
MBh 9.22.58
नेह शक्यं रथैर्योद्धुं कुत एव महागजैः
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि
MBh 9.22.59
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः
न पुनः सौबलो राजा युद्धमभ्यागमिष्यति
MBh 9.22.60
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः
MBh 9.22.61
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः
MBh 9.22.62
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्
MBh 9.22.63
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत
तावकानां परेषां च परस्परवधैषिणाम्
MBh 9.22.64
ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः
MBh 9.22.65
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये
प्रादुरासीन्महाशब्दस्तालानां पततामिव
MBh 9.22.66
विमुक्तानां शरीराणां भिन्नानां पततां भुवि
सायुधानां च बाहूनामुरूणां च विशां पते
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः
MBh 9.22.67
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि
योधाः परिपतन्ति स्म यथामिषकृते खगाः
MBh 9.22.68
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम्
अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः
MBh 9.22.69
संघातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः
MBh 9.22.70
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम्
स्तनतां च मनुष्याणां संनद्धानां विशां पते
MBh 9.22.71
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव
MBh 9.22.72
श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः
विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः
MBh 9.22.73
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान्
MBh 9.22.74
बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः
MBh 9.22.75
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः
MBh 9.22.76
नराश्वकायसंछन्ना भूमिरासीद्विशां पते
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी
MBh 9.22.77
असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः
तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत
MBh 9.22.78
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम्
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः
MBh 9.22.79
शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत
उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम्
MBh 9.22.80
अथोत्थितेषु बहुषु कबन्धेषु जनाधिप
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्
MBh 9.22.81
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम्
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः
MBh 9.22.82
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः
MBh 9.22.83
कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः
MBh 9.22.84
त्वदीयास्तांस्तु संप्रेक्ष्य सर्वतः समभिद्रुतान्
साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः
MBh 9.22.85
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम्
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्
MBh 9.22.86
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः
विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा
MBh 9.22.87
एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे
MBh 9.22.88
एवमासीदमर्यादं युद्धं भरतसत्तम
प्रासासिबाणकलिले वर्तमाने सुदारुणे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 21
- Next chapter · Śalya-Parva Ch 23 →
Sources and Connected Readings
Continue from these 88 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.22local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷