🪷 Mahābhārata · Śalya-Parva · Chapter 21

The Book of Śalya · Parva 9 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 9.21.1
संजय उवाच पुत्रस्तु ते महाराज रथस्थो रथिनां वरः दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्
MBh 9.21.2
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्
MBh 9.21.3
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे हयो गजो रथो वापि योऽस्य बाणैरविक्षतः
MBh 9.21.4
यं यं हि समरे योधं प्रपश्यामि विशां पते स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत
MBh 9.21.5
यथा सैन्येन रजसा समुद्धूतेन वाहिनी प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः
MBh 9.21.6
बाणभूतामपश्याम पृथिवीं पृथिवीपते दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना
MBh 9.21.7
तेषु योधसहस्रेषु तावकेषु परेषु च एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम
MBh 9.21.8
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् यदेकं सहिताः पार्था नात्यवर्तन्त भारत
MBh 9.21.9
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ भीमसेनं च सप्तत्या सहदेवं च सप्तभिः
MBh 9.21.10
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष
MBh 9.21.11
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः
MBh 9.21.12
नकुलश्च ततो वीरो राजानं नवभिः शरैः घोररूपैर्महेष्वासो विव्याध च ननाद च
MBh 9.21.13
सात्यकिश्चापि राजानं शरेणानतपर्वणा द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः अशीत्या भीमसेनश्च शरै राजानमार्दयत्
MBh 9.21.14
समन्तात्कीर्यमाणस्तु बाणसंघैर्महात्मभिः न चचाल महाराज सर्वसैन्यस्य पश्यतः
MBh 9.21.15
लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः अति सर्वाणि भूतानि ददृशुः सर्वमानवाः
MBh 9.21.16
धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् अपश्यमाना राजानं पर्यवर्तन्त दंशिताः
MBh 9.21.17
तेषामापततां घोरस्तुमुलः समजायत क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि
MBh 9.21.18
समासाद्य रणे ते तु राजानमपराजितम् प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः
MBh 9.21.19
भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा
MBh 9.21.20
तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ
MBh 9.21.21
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः नादं चकार बलवान्सर्वसैन्यानि कम्पयन्
MBh 9.21.22
एतस्मिन्नन्तरे वीरं राजानमपराजितम् अपोवाह रथेनाजौ सहदेवः प्रतापवान्
MBh 9.21.23
अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ननाद च महानादं प्रवरः सर्वधन्विनाम्
MBh 9.21.24
तद्युद्धमभवच्चित्रं घोररूपं च मारिष ईक्षितृप्रीतिजननं सिद्धचारणसेवितम्
MBh 9.21.25
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः
MBh 9.21.26
तथैव नकुलः शूरः सौबलस्य सुतं रणे शरवर्षेण महता समन्तात्पर्यवारयत्
MBh 9.21.27
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ योधयन्तावपश्येतां परस्परकृतागसौ
MBh 9.21.28
तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् योधयञ्शुशुभे राजन्बलं शक्र इवाहवे
MBh 9.21.29
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः
MBh 9.21.30
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् राजानं योधयामास पश्यतां सर्वधन्विनाम्
MBh 9.21.31
तयोर्युद्धं महच्चासीत्संग्रामे भरतर्षभ प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः
MBh 9.21.32
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् विव्याध बहुभिः शूरः शरैः संनतपर्वभिः
MBh 9.21.33
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः घोररूपमसंवार्यं निर्मर्यादमतीव च
MBh 9.21.34
ते च तं पीडयामासुरिन्द्रियाणीव बालिशम् स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे
MBh 9.21.35
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो
MBh 9.21.36
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा हया हयैः समासक्ता रथिनो रथिभिस्तथा संकुलं चाभवद्भूयो घोररूपं विशां पते
MBh 9.21.37
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो युद्धान्यासन्महाराज घोराणि च बहूनि च
MBh 9.21.38
ते समासाद्य समरे परस्परमरिंदमाः विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे
MBh 9.21.39
तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः
MBh 9.21.40
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् रजः संध्याभ्रकपिलं दिवाकरपथं ययौ
MBh 9.21.41
रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते संछादिताभवद्भूमिस्ते च शूरा महारथाः
MBh 9.21.42
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः वीरशोणितसिक्तायां भूमौ भरतसत्तम उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम्
MBh 9.21.43
ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः
MBh 9.21.44
शब्दः सुतुमुलः संख्ये शराणां पततामभूत् महावेणुवनस्येव दह्यमानस्य सर्वतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.21local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷