🪷 Mahābhārata · Śalya-Parva · Chapter 18

The Book of Śalya · Parva 9 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 65 Shlokas

MBh 9.18.1
संजय उवाच पातिते युधि दुर्धर्षे मद्रराजे महारथे तावकास्तव पुत्राश्च प्रायशो विमुखाभवन्
MBh 9.18.2
वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे अपारे पारमिच्छन्तो हते शूरे महात्मनि
MBh 9.18.3
मद्रराजे महाराज वित्रस्ताः शरविक्षताः अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव
MBh 9.18.4
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना
MBh 9.18.5
न संधातुमनीकानि न च राजन्पराक्रमे आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित्
MBh 9.18.6
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत यद्दुःखं तव योधानां भयं चासीद्विशां पते तद्भयं स च नः शोको भूय एवाभ्यवर्तत
MBh 9.18.7
निराशाश्च जये तस्मिन्हते शल्ये महारथे हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात्
MBh 9.18.8
अश्वानन्ये गजानन्ये रथानन्ये महारथाः आरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात्
MBh 9.18.9
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः
MBh 9.18.10
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः
MBh 9.18.11
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः
MBh 9.18.12
बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः शङ्खशब्दश्च शूराणां दारुणः समपद्यत
MBh 9.18.13
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह
MBh 9.18.14
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया
MBh 9.18.15
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम्
MBh 9.18.16
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम्
MBh 9.18.17
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः
MBh 9.18.18
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे
MBh 9.18.19
अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः
MBh 9.18.20
हते दुर्योधने युद्धे शक्रेणेवासुरे मये यत्कृतं भीमसेनेन दुःशासनवधे तदा नान्यः कर्तास्ति लोके तदृते भीमं महाबलम्
MBh 9.18.21
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम्
MBh 9.18.22
अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ निहते सौबले शूरे गान्धारेषु च सर्वशः
MBh 9.18.23
कथं तेषां जयो न स्याद्येषां योद्धा धनंजयः सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
MBh 9.18.24
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः
MBh 9.18.25
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः
MBh 9.18.26
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः
MBh 9.18.27
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः
MBh 9.18.28
इत्येवं वदमानास्ते हर्षेण महता युताः प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः
MBh 9.18.29
धनंजयो रथानीकमभ्यवर्तत वीर्यवान् माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः
MBh 9.18.30
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव
MBh 9.18.31
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय
MBh 9.18.32
जघने युध्यमानं हि कौन्तेयो मां धनंजयः नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः
MBh 9.18.33
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः
MBh 9.18.34
सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् तस्माद्याहि शनैः सूत जघनं परिपालय
MBh 9.18.35
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु पुनरावर्तते तूर्णं मामकं बलमोजसा
MBh 9.18.36
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः सारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत्
MBh 9.18.37
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः एकविंशतिसाहस्राः संयुगायावतस्थिरे
MBh 9.18.38
नानादेशसमुद्भूता नानारञ्जितवाससः अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः
MBh 9.18.39
तेषामापततां तत्र संहृष्टानां परस्परम् संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः
MBh 9.18.40
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् बलेन चतुरङ्गेण नानादेश्या न्यवारयन्
MBh 9.18.41
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः
MBh 9.18.42
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः
MBh 9.18.43
स वध्यमानः समरे पदातिगणसंवृतः न चचाल रथोपस्थे मैनाक इव पर्वतः
MBh 9.18.44
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन्
MBh 9.18.45
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः
MBh 9.18.46
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः
MBh 9.18.47
रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली एकविंशतिसाहस्रान्पदातीनवपोथयत्
MBh 9.18.48
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत
MBh 9.18.49
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः
MBh 9.18.50
नानापुष्पस्रजोपेता नानाकुण्डलधारिणः नानाजात्या हतास्तत्र नानादेशसमागताः
MBh 9.18.51
पताकाध्वजसंछन्नं पदातीनां महद्बलम् निकृत्तं विबभौ तत्र घोररूपं भयानकम्
MBh 9.18.52
युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव
MBh 9.18.53
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम्
MBh 9.18.54
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् यदेकं सहिताः पार्था न शेकुरतिवर्तितुम्
MBh 9.18.55
नातिदूरापयातं तु कृतबुद्धिं पलायने दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम्
MBh 9.18.56
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः
MBh 9.18.57
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत्
MBh 9.18.58
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम्
MBh 9.18.59
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः यदा शूरं च भीरुं च मारयत्यन्तकः सदा को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः
MBh 9.18.60
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम्
MBh 9.18.61
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते
MBh 9.18.62
श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः पुनरेवान्ववर्तन्त पाण्डवानाततायिनः
MBh 9.18.63
तानापतत एवाशु व्यूढानीकाः प्रहारिणः प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः
MBh 9.18.64
धनंजयो रथेनाजावभ्यवर्तत वीर्यवान् विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः
MBh 9.18.65
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 65 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.18local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷