🪷 Mahābhārata · Śalya-Parva · Chapter 19
The Book of Śalya · Parva 9 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 9.19.1
संजय उवाच
संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः
अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद्बलम्
MBh 9.19.2
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्
दृप्तमैरावतप्रख्यममित्रगणमर्दनम्
MBh 9.19.3
योऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम्
सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन्
MBh 9.19.4
तमास्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते
स तेन नागप्रवरेण राज;न्नभ्युद्ययौ पाण्डुसुतान्समन्तात्
शितैः पृषत्कैर्विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः
MBh 9.19.5
ततः शरान्वै सृजतो महारणे; योधांश्च राजन्नयतो यमाय
नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः
MBh 9.19.6
ते पाण्डवाः सोमकाः सृञ्जयाश्च; तमेव नागं ददृशुः समन्तात्
सहस्रशो वै विचरन्तमेकं; यथा महेन्द्रस्य गजं समीपे
MBh 9.19.7
संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात्
नैवावतस्थे समरे भृशं भया;द्विमर्दमानं तु परस्परं तदा
MBh 9.19.8
ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन
दिशश्चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तमपारयन्ती
MBh 9.19.9
दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः
अपूजयंस्तत्र नराधिपं तं; दध्मुश्च शङ्खाञ्शशिसंनिकाशान्
MBh 9.19.10
श्रुत्वा निनादं त्वथ कौरवाणां; हर्षाद्विमुक्तं सह शङ्खशब्दैः
सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात्
MBh 9.19.11
ततस्तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय
जम्भो यथा शक्रसमागमे वै; नागेन्द्रमैरावणमिन्द्रवाह्यम्
MBh 9.19.12
तमापतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः
तं वै द्विपं प्रेषयामास तूर्णं; वधाय राजन्द्रुपदात्मजस्य
MBh 9.19.13
स तं द्विपं सहसाभ्यापतन्त;मविध्यदर्कप्रतिमैः पृषत्कैः
कर्मारधौतैर्निशितैर्ज्वलद्भि;र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः
MBh 9.19.14
ततोऽपरान्पञ्च शितान्महात्मा; नाराचमुख्यान्विससर्ज कुम्भे
स तैस्तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे
MBh 9.19.15
तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः
तोत्त्राङ्कुशैः प्रेषयामास तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य
MBh 9.19.16
दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच्छीघ्रमेव
गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः
MBh 9.19.17
स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य
उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयामास वसुंधरातले
MBh 9.19.18
पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन
तमभ्यधावत्सहसा जवेन; भीमः शिखण्डी च शिनेश्च नप्ता
MBh 9.19.19
शरैश्च वेगं सहसा निगृह्य; तस्याभितोऽभ्यापततो गजस्य
स संगृहीतो रथिभिर्गजो वै; चचाल तैर्वार्यमाणश्च संख्ये
MBh 9.19.20
ततः पृषत्कान्प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात्
तेनाशुगैर्वध्यमाना रथौघाः; प्रदुद्रुवुस्तत्र ततस्तु सर्वे
MBh 9.19.21
तत्कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश्च
हाहाकारैर्नादयन्तः स्म युद्धे; द्विपं समन्ताद्रुरुधुर्नराग्र्याः
MBh 9.19.22
पाञ्चालराजस्त्वरितस्तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम्
असंभ्रमं भारत शत्रुघाती; जवेन वीरोऽनुससार नागम्
MBh 9.19.23
ततोऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम्
गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस्तरस्वी
MBh 9.19.24
स भिन्नकुम्भः सहसा विनद्य; मुखात्प्रभूतं क्षतजं विमुञ्चन्
पपात नागो धरणीधराभः; क्षितिप्रकम्पाच्चलितो यथाद्रिः
MBh 9.19.25
निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये
स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन
MBh 9.19.26
हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा
यथाद्रिशृङ्गं सुमहत्प्रणुन्नं; वज्रेण देवाधिपचोदितेन
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 18
- Next chapter · Śalya-Parva Ch 20 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.19local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷