🪷 Mahābhārata · Śalya-Parva · Chapter 17

The Book of Śalya · Parva 9 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 9.17.1
संजय उवाच शल्ये तु निहते राजन्मद्रराजपदानुगाः रथाः सप्तशता वीरा निर्ययुर्महतो बलात्
MBh 9.17.2
दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम् छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः न गन्तव्यं न गन्तव्यमिति मद्रानवारयत्
MBh 9.17.3
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम्
MBh 9.17.4
ते तु शूरा महाराज कृतचित्ताः स्म योधने धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः
MBh 9.17.5
श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः
MBh 9.17.6
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः पूरयन्रथघोषेण दिशः सर्वा महारथः
MBh 9.17.7
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः
MBh 9.17.8
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन्
MBh 9.17.9
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा
MBh 9.17.10
पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः
MBh 9.17.11
प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः
MBh 9.17.12
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन
MBh 9.17.13
पाञ्चालानां महावीर्याः शिखण्डी च महारथः धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः
MBh 9.17.14
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान्
MBh 9.17.15
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः प्रत्यदृश्यन्त समरे तावका निहताः परैः
MBh 9.17.16
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत
MBh 9.17.17
दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् न चास्य शासनं कश्चित्तत्र चक्रे महारथः
MBh 9.17.18
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् दुर्योधनं महाराज वचनं वचनक्षमः
MBh 9.17.19
किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम् न युक्तमेतत्समरे त्वयि तिष्ठति भारत
MBh 9.17.20
सहितैर्नाम योद्धव्यमित्येष समयः कृतः अथ कस्मात्परानेव घ्नतो मर्षयसे नृप
MBh 9.17.21
दुर्योधन उवाच वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम्
MBh 9.17.22
शकुनिरुवाच न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम्
MBh 9.17.23
यामः सर्वेऽत्र संभूय सवाजिरथकुञ्जराः परित्रातुं महेष्वासान्मद्रराजपदानुगान्
MBh 9.17.24
अन्योन्यं परिरक्षामो यत्नेन महता नृप एवं सर्वेऽनुसंचिन्त्य प्रययुर्यत्र सैनिकाः
MBh 9.17.25
संजय उवाच एवमुक्तस्ततो राजा बलेन महता वृतः प्रययौ सिंहनादेन कम्पयन्वै वसुंधराम्
MBh 9.17.26
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत
MBh 9.17.27
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम्
MBh 9.17.28
ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः
MBh 9.17.29
ततो नः संप्रयातानां हतामित्रास्तरस्विनः हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे
MBh 9.17.30
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः पपात महती चोल्का मध्येनादित्यमण्डलम्
MBh 9.17.31
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः अश्वैर्निपतितैश्चैव संछन्नाभूद्वसुंधरा
MBh 9.17.32
वातायमानैस्तुरगैर्युगासक्तैस्तुरंगमैः अदृश्यन्त महाराज योधास्तत्र रणाजिरे
MBh 9.17.33
भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे रथार्धं केचिदादाय दिशो दश विबभ्रमुः तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः
MBh 9.17.34
रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम गगनात्प्रच्युताः सिद्धाः पुण्यानामिव संक्षये
MBh 9.17.35
निहतेषु च शूरेषु मद्रराजानुगेषु च अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः
MBh 9.17.36
अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः
MBh 9.17.37
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः
MBh 9.17.38
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्
MBh 9.17.39
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः दिशो भेजेऽथ संभ्रान्तं त्रासितं दृढधन्विभिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.17local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷