🪷 Mahābhārata · Śalya-Parva · Chapter 14

The Book of Śalya · Parva 9 · 41 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 9.14local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 41 Shlokas

MBh 9.14.1
[स] दुर्यॊधनॊ महाराज धृष्टद्युम्नश च पर्षतः चक्रतुः सुमहद युद्धां शरशक्तिसमाकुलम
MBh 9.14.2
तयॊर आसन महाराज शरधाराः सहस्रशः अम्बुदानां यथाकाले जलधाराः समन्ततः
MBh 9.14.3
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिर आयसैः दरॊण हन्तारम उग्रेषुः पुनर विव्याध सप्तभिः
MBh 9.14.4
धृष्टद्युम्नस तु समरे बलवान दृढविक्रमः सप्तत्या विशिखानां वै दुर्यॊधनम अपीडयत
MBh 9.14.5
पीडितं परेक्ष्य राजानं सॊदर्या भरतर्षभ महत्या सेनया सार्धं परिवव्रुः सम पार्षतम
MBh 9.14.6
स तैः परिवृतॊ शूरैः सर्वतॊ ऽतिरथैर भृशम वयचरत समरे राजन दर्शयन हस्तलाघवम
MBh 9.14.7
शिखण्डी कृतवर्माणं गौतमं च महारथम परभद्रकैः समायुक्तॊ यॊधयाम आस धन्विनौ
MBh 9.14.8
तत्रापि सुमहद युद्धं घॊररूपं विशां पते पराणान संत्यजतां युद्धे पराणद्यूताभिदेवने
MBh 9.14.9
शल्यस तु शरवर्षाणि विमुञ्चन सर्वतॊदिशम पाण्डवान पीडयाम आस ससात्यकि वृकॊदरान
MBh 9.14.10
तथॊभौ च यमौ युद्धे यम तुल्यपराक्रमौ यॊधयाम आस राजेन्द्र वीर्येण च बलेन च
MBh 9.14.11
शल्य सायकनुन्नानां पाण्डवानां महामृधे तरातारं नाध्यगच्छन्त केच चित तत्र महारथाः
MBh 9.14.12
ततस तु नकुलः शूरॊ धर्मराजे परपीडिते अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः
MBh 9.14.13
संछाद्य समरे शल्यं नकुलः परवीरहा विव्याध चैनं दशभिः समयमानः सतनान्तरे
MBh 9.14.14
सर्वपारशवैर बाणैः कर्मार परिमार्जितैः सवर्णपुङ्खैः शिला धौतैर धनुर यन्त्रप्रचॊदितैः
MBh 9.14.15
शल्यस तु पीडितस तेन सवस्त्रीयेण महात्मना नकुलं पीडयाम आस सवस्रीयेण महात्मना
MBh 9.14.16
ततॊ युधिष्ठिरॊ राजा भीमसेनॊ ऽथ सात्यकिः सहदेवश च माद्रेयॊ मद्रराजम उपाद्रवन
MBh 9.14.17
तान आपतत एवाशु पूरयानान रतः सवनैः दिशश च परदिशश चैव कम्पयानांश च मेदिनीम परतिजग्राह समरे सेनापतिर अमित्रजित
MBh 9.14.18
युधिष्ठिरं तरिभिर विद्ध्वा भीमसेनं च सप्तभिः सात्यकिं च शतेनाजौ सहदेवं तरिभिः शरैः
MBh 9.14.19
ततस तु सशरं चापं नकुलस्य महात्मनः मद्रेश्वरः कषुरप्रेण तदा चिच्छेद मारिष तद अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः
MBh 9.14.20
अथान्यद धनुर आदाय माद्रीपुत्रॊ महारथः मद्रराजरथं तूर्णं पूरयाम आस पत्रिभिः
MBh 9.14.21
युधिष्ठिरस तु मद्रेशं सहदेवश च मारिष दशभिर दशभिर बाणैर उरस्य एनम अविध्यताम
MBh 9.14.22
भीमसेनस ततः षष्ट्या सात्यकिर नवभिः शरैः मद्रराजम अभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः
MBh 9.14.23
मद्रराजस ततः करुद्धः सात्यकिं नवभिः शरैः विव्याध भूयः सप्तत्या शराणां नतपर्वणाम
MBh 9.14.24
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष हयांश च चतुरः संख्ये परेषयाम आस मृत्यवे
MBh 9.14.25
विरथं सात्यकिं कृत्वा मद्रराजॊ महाबलः विशिखानां शतेनैनम आजघान समन्ततः
MBh 9.14.26
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः
MBh 9.14.27
तत्राद्भुतम अपश्याम मद्रराजस्य पौरुषम यद एनं सहिताः पार्था नाभ्यवर्तन्त संयुगे
MBh 9.14.28
अथान्यं रथम आस्थाय सात्यकिः सत्यविक्रमः पीडितान पाण्डवान दृष्ट्वा मद्रराजवशं गतान अभिदुद्राव वेगेन मद्राणाम अधिपं बली
MBh 9.14.29
आपतन्तं रथं तस्य शल्यः समितिशॊभनः परत्युद्यतौ रथेनैव मत्तॊ मत्तम इव दविपम
MBh 9.14.30
स संनिपातस तुमुलॊ बभूवाद्भुतदर्शनः सात्यकेश चैव शूरस्य मद्राणाम अधिपस्य च यादृशॊ वै पुरावृत्तः शम्बरामर राजयॊः
MBh 9.14.31
सात्यकिः परेक्ष्य समरे मद्रराजं वयवस्थितम विव्याध दशभिर बाणैस तिष्ठ तिष्ठेति चाब्रवीत
MBh 9.14.32
मद्रराजस तु सुभृशं विद्धस तेन महात्मना सात्यकिमं परतिविव्याध चित्रपुङ्खैः शितैः शरैः
MBh 9.14.33
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम अभ्यद्रवन रथैस तूर्णं मातुलं वधकाम्यया
MBh 9.14.34
तत आसीत परामर्दस तुमुलः शॊणितॊदकः शूराणां युध्यमानानां सिंहानाम इव नर्दताम
MBh 9.14.35
तेषाम आसीन महाराज वयतिक्षेपः परस्परम सिंहानाम आमिषेप्सूनां कूजताम इव संयुगे
MBh 9.14.36
तेषां बाणसहस्रौघैर आकीर्णा वसुधाभवत अन्तरिक्षं च सहसा बाणभूतम अभूत तदा
MBh 9.14.37
शरान्धकारं बहुधा कृतं तत्र समन्ततः अब्भ्रच छायेव संजज्ञे शरैर मुक्तैर महात्मभिः
MBh 9.14.38
तत्र राजञ शरैर मुक्तैर निर्मुक्तैर इव पन्नगैः सवर्णपुङ्खैः परकाशद्भिर वयरॊचन्त दिशस तथा
MBh 9.14.39
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः यद एकः समरे शूरॊ यॊधयाम आस वै बहून
MBh 9.14.40
मद्रराजभुजॊत्सृष्टैः कङ्कबर्हिण वाजितैः संपतद्भिः शरैर घॊरैर अवाकीर्यत मेदिनी
MBh 9.14.41
तत्र शल्य रथं राजन विचरन्तं महाहवे अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷