🪷 Mahābhārata · Śalya-Parva · Chapter 15
The Book of Śalya · Parva 9 · 67 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 67 Shlokas
MBh 9.15.1
संजय उवाच
ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः
पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे
MBh 9.15.2
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः
क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन्
MBh 9.15.3
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे
निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः
MBh 9.15.4
ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः
अवाकिरच्छरौघेण कृतवर्माणमेव च
MBh 9.15.5
शकुनिं सहदेवस्तु सहसैन्यमवारयत्
नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत
MBh 9.15.6
द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन्
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत्
MBh 9.15.7
भीमसेनस्तु राजानं गदापाणिरवारयत्
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः
MBh 9.15.8
ततः समभवद्युद्धं संसक्तं तत्र तत्र ह
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्
MBh 9.15.9
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे
यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत
MBh 9.15.10
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः
रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः
MBh 9.15.11
पीडयित्वा तु राजानं शरैराशीविषोपमैः
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत्
MBh 9.15.12
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्
अपूजयन्ननीकानि परेषां तावकानि च
MBh 9.15.13
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे
MBh 9.15.14
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः
ततः पौरुषमास्थाय मद्रराजमपीडयत्
MBh 9.15.15
जयो वास्तु वधो वेति कृतबुद्धिर्महारथः
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम्
MBh 9.15.16
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः
कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः
MBh 9.15.17
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः
MBh 9.15.18
सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम्
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः
MBh 9.15.19
चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ
अजेयौ वासवेनापि समरे वीरसंमतौ
MBh 9.15.20
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ
मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ
MBh 9.15.21
मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः
इति सत्यामिमां वाणीं लोकवीरा निबोधत
MBh 9.15.22
योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः
स्वयं समभिसंधाय विजयायेतराय वा
MBh 9.15.23
तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च
संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः
MBh 9.15.24
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्
पृष्ठगोपो भवत्वद्य मम पार्थो धनंजयः
MBh 9.15.25
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे
MBh 9.15.26
एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः
ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप
MBh 9.15.27
पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः
प्रतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन्
MBh 9.15.28
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे
MBh 9.15.29
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः
महता हर्षजेनाथ नादेन कुरुपुंगवाः
MBh 9.15.30
ह्रादेन गजघण्टानां शङ्खानां निनदेन च
तूर्यशब्देन महता नादयन्तश्च मेदिनीम्
MBh 9.15.31
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान्
महामेघानिव बहूञ्शैलावस्तोदयावुभौ
MBh 9.15.32
शल्यस्तु समरश्लाघी धर्मराजमरिंदमम्
ववर्ष शरवर्षेण वर्षेण मघवानिव
MBh 9.15.33
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः
MBh 9.15.34
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च
न चास्य विवरं कश्चिद्ददर्श चरतो रणे
MBh 9.15.35
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम्
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे
MBh 9.15.36
भीमस्तु तव पुत्रेण रणशौण्डेन संगतः
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः
MBh 9.15.37
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम्
तावकानां परेषां च राजन्दुर्मन्त्रिते तव
MBh 9.15.38
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा
चिच्छेदादिश्य संग्रामे ध्वजं हेमविभूषितम्
MBh 9.15.39
सकिङ्किणीकजालेन महता चारुदर्शनः
पपात रुचिरः सिंहो भीमसेनस्य नानदन्
MBh 9.15.40
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्
क्षुरेण शितधारेण प्रचकर्त नराधिपः
MBh 9.15.41
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्
MBh 9.15.42
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा
MBh 9.15.43
हतसूता हयास्तस्य रथमादाय भारत
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत्
MBh 9.15.44
तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः
कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः
MBh 9.15.45
तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः
MBh 9.15.46
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः
स्वयं संचोदयन्नश्वान्दन्तवर्णान्मनोजवान्
MBh 9.15.47
तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत्
MBh 9.15.48
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः
MBh 9.15.49
यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः
MBh 9.15.50
साश्वसूतध्वजरथान्रथिनः पातयन्बहून्
आक्रीडदेको बलवान्पवनस्तोयदानिव
MBh 9.15.51
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः
व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव
MBh 9.15.52
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत्
MBh 9.15.53
तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्
MBh 9.15.54
ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ
समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः
MBh 9.15.55
शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत्
मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत्
MBh 9.15.56
व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ
MBh 9.15.57
पुष्पिताविव रेजाते वने शल्मलिकिंशुकौ
दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ
MBh 9.15.58
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुंधराम्
MBh 9.15.59
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम्
इतीव निश्चयो नाभूद्योधानां तत्र भारत
MBh 9.15.60
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः
MBh 9.15.61
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे
धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत
MBh 9.15.62
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत
MBh 9.15.63
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः
द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी
MBh 9.15.64
ततोऽस्य दीप्यमानेन पीतेन निशितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम्
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम
MBh 9.15.65
ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम्
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे
MBh 9.15.66
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे
स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः
MBh 9.15.67
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम्
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 14
- Next chapter · Śalya-Parva Ch 16 →
Sources and Connected Readings
Continue from these 67 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.15local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷