🪷 Mahābhārata · Śalya-Parva · Chapter 13
The Book of Śalya · Parva 9 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 9.13.1
संजय उवाच
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः
MBh 9.13.2
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनंजयः
भूयश्चैव महाबाहुः शरवर्षैरवाकिरत्
MBh 9.13.3
शरकण्टकितास्ते तु तावका भरतर्षभ
न जहुः समरे पार्थं वध्यमानाः शितैः शरैः
MBh 9.13.4
तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः
अयोधयन्त समरे परिवार्य महारथाः
MBh 9.13.5
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा
MBh 9.13.6
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्
शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ
MBh 9.13.7
कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो
युगं चैवानुकर्षं च शरभूतमभूत्तदा
MBh 9.13.8
नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम्
यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे
MBh 9.13.9
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः
उल्काशतैः संप्रदीप्तं विमानमिव भूतले
MBh 9.13.10
ततोऽर्जुनो महाराज शरैः संनतपर्वभिः
अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम्
MBh 9.13.11
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्
MBh 9.13.12
ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान्
सेनेन्धनं ददाहाशु तावकं पार्थपावकः
MBh 9.13.13
चक्राणां पततां चैव युगानां च धरातले
तूणीराणां पताकानां ध्वजानां च रथैः सह
MBh 9.13.14
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत
अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः
MBh 9.13.15
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम्
भुजानां च महाराज स्कन्धानां च समन्ततः
MBh 9.13.16
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः
समदृश्यन्त पार्थस्य रथमार्गेषु भारत
MBh 9.13.17
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा
भीरूणां त्रासजननी शूराणां हर्षवर्धनी
MBh 9.13.18
हत्वा तु समरे पार्थः सहस्रे द्वे परंतप
रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन्
MBh 9.13.19
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्
विधूमो दृश्यते राजंस्तथा पार्थो महारथः
MBh 9.13.20
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्
रथेनातिपताकेन पाण्डवं प्रत्यवारयत्
MBh 9.13.21
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ
समीयतुस्तदा तूर्णं परस्परवधैषिणौ
MBh 9.13.22
तयोरासीन्महाराज बाणवर्षं सुदारुणम्
जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ
MBh 9.13.23
अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः
ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव
MBh 9.13.24
तयोर्युद्धं महाराज चिरं सममिवाभवत्
अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान्
MBh 9.13.25
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत
MBh 9.13.26
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः
मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे
MBh 9.13.27
व्यश्वसूतरथं चक्रे सव्यसाची महारथः
मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः
MBh 9.13.28
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्
MBh 9.13.29
तमापतन्तं सहसा हेमपट्टविभूषितम्
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः
MBh 9.13.30
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः
आददे परिघं घोरं नगेन्द्रशिखरोपमम्
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः
MBh 9.13.31
तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः
MBh 9.13.32
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे
दारयन्पृथिवीन्द्राणां मनः शब्देन भारत
MBh 9.13.33
ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः
सोऽतिविद्धो बलवता पार्थेन सुमहाबलः
न संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः
MBh 9.13.34
सुधर्मा तु ततो राजन्भारद्वाजं महारथम्
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः
MBh 9.13.35
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत
MBh 9.13.36
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम्
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत्
MBh 9.13.37
सुरथं तु ततः क्रुद्धमापतन्तं महारथम्
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः
MBh 9.13.38
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन्
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च
मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम्
MBh 9.13.39
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः
शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम्
MBh 9.13.40
ततस्तं पतितं भूमौ नाराचेन समाहतम्
वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम्
MBh 9.13.41
तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान्
आरुरोह रथं तूर्णं तमेव रथिनां वरः
MBh 9.13.42
ततः सज्जो महाराज द्रौणिराहवदुर्मदः
अर्जुनं योधयामास संशप्तकवृतो रणे
MBh 9.13.43
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह
मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम्
MBh 9.13.44
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्
यदेको युगपद्वीरान्समयोधयदर्जुनः
MBh 9.13.45
विमर्दस्तु महानासीदर्जुनस्य परैः सह
शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 12
- Next chapter · Śalya-Parva Ch 14 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.13local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷