🪷 Mahābhārata · Śalya-Parva · Chapter 12

The Book of Śalya · Parva 9 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 45 Shlokas

MBh 9.12.1
संजय उवाच पीडिते धर्मराजे तु मद्रराजेन मारिष सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ परिवार्य रथैः शल्यं पीडयामासुराहवे
MBh 9.12.2
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः आश्चर्यमित्यभाषन्त मुनयश्चापि संगताः
MBh 9.12.3
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः
MBh 9.12.4
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया मद्रेश्वरमवाकीर्य सिंहनादमथानदत्
MBh 9.12.5
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः
MBh 9.12.6
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम्
MBh 9.12.7
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा
MBh 9.12.8
ततः सविशिखं चापं सहदेवस्य धन्विनः छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः
MBh 9.12.9
सहदेवस्तु समरे मातुलं भूरिवर्चसम् सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः
MBh 9.12.10
सारथिं चास्य समरे शरेणानतपर्वणा विव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः
MBh 9.12.11
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत्
MBh 9.12.12
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा
MBh 9.12.13
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः विव्याध तरसा राजंस्तदद्भुतमिवाभवत्
MBh 9.12.14
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष धनुश्चिच्छेद समरे सज्यं स सुमहारथः
MBh 9.12.15
अथान्यद्धनुरादाय धर्मपुत्रो महारथः साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः
MBh 9.12.16
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः
MBh 9.12.17
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते मद्राणामधिपं शूरं शरौघैः समवारयत्
MBh 9.12.18
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्
MBh 9.12.19
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः तोमरं प्रेषयामास स्वर्णदण्डं महाधनम्
MBh 9.12.20
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् नकुलः समरे शक्तिं सहदेवो गदां शुभाम् धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे
MBh 9.12.21
तानापतत एवाशु पञ्चानां वै भुजच्युतान् सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्
MBh 9.12.22
भीमेन प्रहितं चापि शरं कनकभूषणम् द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्
MBh 9.12.23
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् गदां च सहदेवेन शरौघैः समवारयत्
MBh 9.12.24
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे
MBh 9.12.25
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः
MBh 9.12.26
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान्
MBh 9.12.27
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः
MBh 9.12.28
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्
MBh 9.12.29
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत्
MBh 9.12.30
नकुलः सहदेवश्च सात्यकिश्च महारथः परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः
MBh 9.12.31
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः वृतस्तान्योधयामास मद्रराजः प्रतापवान्
MBh 9.12.32
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव
MBh 9.12.33
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः
MBh 9.12.34
समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् चिन्तयामास समरे धर्मराजो युधिष्ठिरः
MBh 9.12.35
कथं नु न भवेत्सत्यं तन्माधववचो महत् न हि क्रुद्धो रणे राजा क्षपयेत बलं मम
MBh 9.12.36
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः
MBh 9.12.37
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् व्यधमत्समरे राजन्महाभ्राणीव मारुतः
MBh 9.12.38
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् शरवृष्टिमपश्याम शलभानामिवाततिम्
MBh 9.12.39
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव
MBh 9.12.40
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः निरन्तरमिवाकाशं संबभूव जनाधिप
MBh 9.12.41
न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत बाणान्धकारे महति कृते तत्र महाभये
MBh 9.12.42
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः
MBh 9.12.43
स तु तान्सर्वतो यत्ताञ्शरैः संपीड्य मारिष धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः
MBh 9.12.44
ते छन्नाः समरे तेन पाण्डवानां महारथाः न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम्
MBh 9.12.45
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः न जहुः समरे शूरं शल्यमाहवशोभिनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 45 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.12local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷