🪷 Mahābhārata · Śalya-Parva · Chapter 11

The Book of Śalya · Parva 9 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 63 Shlokas

MBh 9.11.1
संजय उवाच पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः
MBh 9.11.2
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् सशृङ्गमिव कैलासं सवज्रमिव वासवम्
MBh 9.11.3
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्
MBh 9.11.4
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः
MBh 9.11.5
प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन्
MBh 9.11.6
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् सोढुमुत्सहते वेगं भीमसेनस्य संयुगे
MBh 9.11.7
तथा मद्राधिपस्यापि गदावेगं महात्मनः सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्
MBh 9.11.8
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ
MBh 9.11.9
मण्डलावर्तमार्गेषु गदाविहरणेषु च निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः
MBh 9.11.10
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा
MBh 9.11.11
तथैव चरतो मार्गान्मण्डलेषु महात्मनः विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा
MBh 9.11.12
ताडिता मद्रराजेन भीमस्य गदया गदा दीप्यमानेव वै राजन्ससृजे पावकार्चिषः
MBh 9.11.13
तथा भीमेन शल्यस्य ताडिता गदया गदा अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्
MBh 9.11.14
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः
MBh 9.11.15
तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ
MBh 9.11.16
गदया मद्रराजेन सव्यदक्षिणमाहतः भीमसेनो महाबाहुर्न चचालाचलो यथा
MBh 9.11.17
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः
MBh 9.11.18
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः गदानिपातसंह्रादो वज्रयोरिव निस्वनः
MBh 9.11.19
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः
MBh 9.11.20
अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः
MBh 9.11.21
प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा
MBh 9.11.22
अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ
MBh 9.11.23
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव
MBh 9.11.24
उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ
MBh 9.11.25
ततः सगदमारोप्य मद्राणामृषभं रथे अपोवाह कृपः शल्यं तूर्णमायोधनादपि
MBh 9.11.26
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः भीमसेनो गदापाणिः समाह्वयत मद्रपम्
MBh 9.11.27
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः नानावादित्रशब्देन पाण्डुसेनामयोधयन्
MBh 9.11.28
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः
MBh 9.11.29
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः प्रययुः सिंहनादेन दुर्योधनवधेप्सया
MBh 9.11.30
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ प्रासेन चेकितानं वै विव्याध हृदये भृशम्
MBh 9.11.31
स पपात रथोपस्थे तव पुत्रेण ताडितः रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः
MBh 9.11.32
चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः
MBh 9.11.33
तावकानामनीकेषु पाण्डवा जितकाशिनः व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः
MBh 9.11.34
कृपश्च कृतवर्मा च सौबलश्च महाबलः अयोधयन्धर्मराजं मद्रराजपुरस्कृताः
MBh 9.11.35
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्
MBh 9.11.36
त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः
MBh 9.11.37
विजये धृतसंकल्पाः समभित्यक्तजीविताः प्राविशंस्तावका राजन्हंसा इव महत्सरः
MBh 9.11.38
ततो युद्धमभूद्घोरं परस्परवधैषिणाम् अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम्
MBh 9.11.39
तस्मिन्प्रवृत्ते संग्रामे राजन्वीरवरक्षये अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः
MBh 9.11.40
श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् परस्परं विजानीमो ये चायुध्यन्नभीतवत्
MBh 9.11.41
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते
MBh 9.11.42
तथा प्रवृत्ते संग्रामे घोररूपे भयानके तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः
MBh 9.11.43
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः
MBh 9.11.44
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः स्वर्गसंसक्तमनसो योधा युयुधिरे तदा
MBh 9.11.45
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्
MBh 9.11.46
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत इति स्म वाचः श्रूयन्ते तव तेषां च वै बले
MBh 9.11.47
ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् विव्याध निशितैर्बाणैर्हन्तुकामो महारथम्
MBh 9.11.48
तस्य पार्थो महाराज नाराचान्वै चतुर्दश मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव
MBh 9.11.49
तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः
MBh 9.11.50
अथ भूयो महाराज शरेण नतपर्वणा युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः
MBh 9.11.51
धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः
MBh 9.11.52
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः द्रुमसेनं चतुःषष्ट्या निजघान महारथः
MBh 9.11.53
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम्
MBh 9.11.54
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः
MBh 9.11.55
एवं विचरतस्तस्य संग्रामे राजसत्तम संप्रेषयच्छितान्पार्थः शरानाशीविषोपमान्
MBh 9.11.56
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात्
MBh 9.11.57
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना निपतन्तमपश्याम गिरिशृङ्गमिवाहतम्
MBh 9.11.58
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् संक्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह
MBh 9.11.59
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः
MBh 9.11.60
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत्
MBh 9.11.61
ततो बाणमयं जालं विततं पाण्डवोरसि अपश्याम महाराज मेघजालमिवोद्गतम्
MBh 9.11.62
तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः दिशः प्रच्छादयामास प्रदिशश्च महारथः
MBh 9.11.63
ततो युधिष्ठिरो राजा बाणजालेन पीडितः बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 63 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.11local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷