🪷 Mahābhārata · Śalya-Parva · Chapter 10
The Book of Śalya · Parva 9 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 56 Shlokas
MBh 9.10.1
संजय उवाच
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम्
द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु
MBh 9.10.2
कूजतां स्तनतां चैव पदातीनां महाहवे
विद्रुतेषु महाराज हयेषु बहुधा तदा
MBh 9.10.3
प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम्
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे
MBh 9.10.4
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने
गाहमानेषु योधेषु परस्परवधैषिषु
MBh 9.10.5
प्राणादाने महाघोरे वर्तमाने दुरोदरे
संग्रामे घोररूपे तु यमराष्ट्रविवर्धने
MBh 9.10.6
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्
MBh 9.10.7
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे
पूर्वाह्णे चैव संप्राप्ते भास्करोदयनं प्रति
MBh 9.10.8
लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्
MBh 9.10.9
बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः
कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला
MBh 9.10.10
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम्
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति
MBh 9.10.11
मद्रराजस्तु संक्रुद्धो गृहीत्वा धनुरुत्तमम्
अभ्यद्रवत संग्रामे पाण्डवानाततायिनः
MBh 9.10.12
पाण्डवाश्च महाराज समरे जितकाशिनः
मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः
MBh 9.10.13
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः
अर्दयामास तां सेनां धर्मराजस्य पश्यतः
MBh 9.10.14
प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः
चचाल शब्दं कुर्वाणा मही चापि सपर्वता
MBh 9.10.15
सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्
MBh 9.10.16
मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप
MBh 9.10.17
ततस्तद्युद्धमत्युग्रमभवत्संघचारिणाम्
तथा सर्वाण्यनीकानि संनिपत्य जनाधिप
अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम्
MBh 9.10.18
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्
अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम्
MBh 9.10.19
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ
MBh 9.10.20
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च
एकैकं दशभिर्बाणैर्विव्याध च महाबलः
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव
MBh 9.10.21
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः
MBh 9.10.22
भ्रमराणामिव व्राताः शलभानामिव व्रजाः
ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः
MBh 9.10.23
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा
शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा
MBh 9.10.24
आविष्ट इव मद्रेशो मन्युना पौरुषेण च
प्राच्छादयदरीन्संख्ये कालसृष्ट इवान्तकः
विनर्दमानो मद्रेशो मेघह्रादो महाबलः
MBh 9.10.25
सा वध्यमाना शल्येन पाण्डवानामनीकिनी
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम्
MBh 9.10.26
तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः
शरवर्षेण महता युधिष्ठिरमपीडयत्
MBh 9.10.27
तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः
अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः
MBh 9.10.28
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम्
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम्
MBh 9.10.29
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः
MBh 9.10.30
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः
अभ्यवर्षन्महाभागं मेघा इव महीधरम्
MBh 9.10.31
ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः
कृतवर्मा कृपश्चैव संक्रुद्धावभ्यधावताम्
MBh 9.10.32
उलूकश्च पतत्री च शकुनिश्चापि सौबलः
स्मयमानश्च शनकैरश्वत्थामा महारथः
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे
MBh 9.10.33
भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः
बाणवर्षेण महता क्रुद्धरूपमवारयत्
MBh 9.10.34
धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत्
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात्
MBh 9.10.35
दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ
समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली
MBh 9.10.36
एवं द्वंद्वशतान्यासंस्त्वदीयानां परैः सह
घोररूपाणि चित्राणि तत्र तत्र विशां पते
MBh 9.10.37
ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे
सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत
MBh 9.10.38
प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट्
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत्
MBh 9.10.39
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्
असंभ्रान्तमसंभ्रान्तो यत्नवान्यत्नवत्तरम्
MBh 9.10.40
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः
अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव
MBh 9.10.41
शल्योऽपि राजन्संक्रुद्धो निघ्नन्सोमकपाण्डवान्
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत्
MBh 9.10.42
तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः
विनाशायाभिसंधाय गदामादत्त वीर्यवान्
MBh 9.10.43
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम्
गजवाजिमनुष्याणां प्राणान्तकरणीमपि
MBh 9.10.44
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम्
MBh 9.10.45
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव
वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव
MBh 9.10.46
पटुघण्टारवशतां वासवीमशनीमिव
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि
MBh 9.10.47
त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम्
मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम्
MBh 9.10.48
यया कैलासभवने महेश्वरसखं बली
आह्वयामास कौन्तेयः संक्रुद्धमलकाधिपम्
MBh 9.10.49
यया मायाविनो दृप्तान्सुबहून्धनदालये
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः
MBh 9.10.50
तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम्
समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे
MBh 9.10.51
गदया युद्धकुशलस्तया दारुणनादया
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान्
MBh 9.10.52
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्
निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात्
MBh 9.10.53
वृकोदरस्त्वसंभ्रातस्तमेवोद्धृत्य तोमरम्
यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि
MBh 9.10.54
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः
पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत्
MBh 9.10.55
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः
गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत
MBh 9.10.56
ततः सुमनसः पार्था भीमसेनमपूजयन्
तद्दृष्ट्वा कर्म संग्रामे घोरमक्लिष्टकर्मणः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 9
- Next chapter · Śalya-Parva Ch 11 →
Sources and Connected Readings
Continue from these 56 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.10local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷