🪷 Mahābhārata · Śalya-Parva · Chapter 9
The Book of Śalya · Parva 9 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 65 Shlokas
MBh 9.9.1
संजय उवाच
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्
MBh 9.9.2
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता
MBh 9.9.3
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि
MBh 9.9.4
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः
MBh 9.9.5
आपतन्तं च सहसा पाण्डवानां महद्बलम्
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम्
MBh 9.9.6
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्
MBh 9.9.7
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम्
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
MBh 9.9.8
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः
MBh 9.9.9
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ
MBh 9.9.10
शरतोयैः सिषिचतुस्तौ परस्परमाहवे
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा
MBh 9.9.11
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ
MBh 9.9.12
चित्रसेनस्तु भल्लेन पीतेन निशितेन च
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः
MBh 9.9.13
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत्
MBh 9.9.14
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्
MBh 9.9.15
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः
MBh 9.9.16
स छिन्नधन्वा विरथः खड्गमादाय चर्म च
रथादवातरद्वीरः शैलाग्रादिव केसरी
MBh 9.9.17
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत्
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः
MBh 9.9.18
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः
MBh 9.9.19
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम्
चित्रसेनशिरः कायादपाहरत पाण्डवः
स पपात रथोपस्थाद्दिवाकरसमप्रभः
MBh 9.9.20
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्
MBh 9.9.21
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान्
MBh 9.9.22
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम्
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने
MBh 9.9.23
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम्
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा
MBh 9.9.24
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान्
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः
MBh 9.9.25
तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः
रथं विशकलीकर्तुं समारब्धौ विशां पते
MBh 9.9.26
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः
MBh 9.9.27
ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम्
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः
MBh 9.9.28
अथान्यं रथमास्थाय धनुरादाय चापरम्
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम्
MBh 9.9.29
अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान्
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि
MBh 9.9.30
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः
MBh 9.9.31
अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे
MBh 9.9.32
सत्यसेनस्य च धनुर्हस्तावापं च मारिष
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः
MBh 9.9.33
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम्
शरैः संछादयामास समन्तात्पाण्डुनन्दनम्
MBh 9.9.34
संनिवार्य तु तान्बाणान्नकुलः परवीरहा
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत
MBh 9.9.35
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः
MBh 9.9.36
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान्
MBh 9.9.37
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत्
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्
MBh 9.9.38
लेलिहानामिव विभो नागकन्यां महाविषाम्
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे
MBh 9.9.39
सा तस्य हृदयं संख्ये बिभेद शतधा नृप
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः
MBh 9.9.40
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम्
MBh 9.9.41
नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे
MBh 9.9.42
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम्
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत्
MBh 9.9.43
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम्
परस्परवधे यत्नं चक्रतुः सुमहारथौ
MBh 9.9.44
सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत्
MBh 9.9.45
ततः क्रुद्धो महाराज नकुलः परवीरहा
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान्
MBh 9.9.46
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम्
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे
MBh 9.9.47
तस्य तेन शिरः कायाज्जहार नृपसत्तम
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्
MBh 9.9.48
स हतः प्रापतद्राजन्नकुलेन महात्मना
नदीवेगादिवारुग्णस्तीरजः पादपो महान्
MBh 9.9.49
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम्
प्रदुद्राव भयात्सेना तावकी भरतर्षभ
MBh 9.9.50
तां तु सेनां महाराज मद्रराजः प्रतापवान्
अपालयद्रणे शूरः सेनापतिररिंदमः
MBh 9.9.51
विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम्
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम्
MBh 9.9.52
तावकाः समरे राजन्रक्षिता दृढधन्वना
प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः
MBh 9.9.53
मद्रराजं महेष्वासं परिवार्य समन्ततः
स्थिता राजन्महासेना योद्धुकामाः समन्ततः
MBh 9.9.54
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम्
MBh 9.9.55
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे
बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः
MBh 9.9.56
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन्
MBh 9.9.57
ततः प्रववृते युद्धं भीरूणां भयवर्धनम्
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्
MBh 9.9.58
यथा देवासुरं युद्धं पूर्वमासीद्विशां पते
अभीतानां तथा राजन्यमराष्ट्रविवर्धनम्
MBh 9.9.59
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः
MBh 9.9.60
तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान्
MBh 9.9.61
पाण्डवैरवकीर्णानां संमोहः समजायत
न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा
MBh 9.9.62
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः
MBh 9.9.63
तथैव पाण्डवी सेना शरै राजन्समन्ततः
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः
MBh 9.9.64
ते सेने भृशसंतप्ते वध्यमाने परस्परम्
व्याकुले समपद्येतां वर्षासु सरिताविव
MBh 9.9.65
आविवेश ततस्तीव्रं तावकानां महद्भयम्
पाण्डवानां च राजेन्द्र तथाभूते महाहवे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 8
- Next chapter · Śalya-Parva Ch 10 →
Sources and Connected Readings
Continue from these 65 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.9local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷