🪷 Mahābhārata · Sauptika-Parva · Chapter 9
The Book of the Sleeping Warriors · Parva 10 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 59 Shlokas
MBh 10.9.1
संजय उवाच
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः
अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः
MBh 10.9.2
गत्वा चैनमपश्यंस्ते किंचित्प्राणं नराधिपम्
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्
MBh 10.9.3
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले
MBh 10.9.4
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः
शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्
MBh 10.9.5
निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्संचिखादिषून्
विवेष्टमानं मह्यां च सुभृशं गाढवेदनम्
MBh 10.9.6
तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम्
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
MBh 10.9.7
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः
शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः
MBh 10.9.8
ते तं शयानं संप्रेक्ष्य राजानमतथोचितम्
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः
MBh 10.9.9
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन्
MBh 10.9.10
कृप उवाच
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः
एकादशचमूभर्ता शेते दुर्योधनो हतः
MBh 10.9.11
पश्य चामीकराभस्य चामीकरविभूषिताम्
गदां गदाप्रियस्येमां समीपे पतितां भुवि
MBh 10.9.12
इयमेनं गदा शूरं न जहाति रणे रणे
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्
MBh 10.9.13
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्
शयानां शयने धर्मे भार्यां प्रीतिमतीमिव
MBh 10.9.14
यो वै मूर्धावसिक्तानामग्रे यातः परंतपः
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम्
MBh 10.9.15
येनाजौ निहता भूमावशेरत पुरा द्विषः
स भूमौ निहतः शेते कुरुराजः परैरयम्
MBh 10.9.16
भयान्नमन्ति राजानो यस्य स्म शतसंघशः
स वीरशयने शेते क्रव्याद्भिः परिवारितः
MBh 10.9.17
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम्
धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम्
MBh 10.9.18
संजय उवाच
तं शयानं नृपश्रेष्ठं ततो भरतसत्तम
अश्वत्थामा समालोक्य करुणं पर्यदेवयत्
MBh 10.9.19
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्
धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह
MBh 10.9.20
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ
बलिनः कृतिनो नित्यं स च पापात्मवान्नृप
MBh 10.9.21
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः
पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे
MBh 10.9.22
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः
MBh 10.9.23
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे
गदया भीमसेनेन निर्भिन्ने सक्थिनी तव
MBh 10.9.24
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः
यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम्
MBh 10.9.25
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः
MBh 10.9.26
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः
दुर्योधनसमो नास्ति गदया इति वीर्यवान्
MBh 10.9.27
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत
सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो
MBh 10.9.28
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्
MBh 10.9.29
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ
हतपुत्रां तु शोचामि गान्धारीं पितरं च ते
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्
MBh 10.9.30
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्
धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम्
MBh 10.9.31
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान्
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः
MBh 10.9.32
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ
MBh 10.9.33
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा
प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते
MBh 10.9.34
धिगस्तु कृतवर्माणं मां कृपं च महारथम्
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्
MBh 10.9.35
दातारं सर्वकामानां रक्षितारं प्रजाहितम्
यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान्
MBh 10.9.36
कृपस्य तव वीर्येण मम चैव पितुश्च मे
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च
MBh 10.9.37
भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः
MBh 10.9.38
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम्
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्
MBh 10.9.39
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्
यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम्
MBh 10.9.40
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते
किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै
MBh 10.9.41
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम्
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम्
MBh 10.9.42
गत्वैतांस्तु महाराज समेत्य त्वं महारथान्
यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम
MBh 10.9.43
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप
MBh 10.9.44
परिष्वजेथा राजानं बाह्लिकं सुमहारथम्
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च
MBh 10.9.45
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान्
अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम्
MBh 10.9.46
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम्
अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत्
MBh 10.9.47
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम्
MBh 10.9.48
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
अहं च कृतवर्मा च कृपः शारद्वतस्तथा
MBh 10.9.49
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत
MBh 10.9.50
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्
MBh 10.9.51
मया च पापकर्मासौ धृष्टद्युम्नो महीपते
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः
MBh 10.9.52
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्
MBh 10.9.53
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्
MBh 10.9.54
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना
तेन मन्ये मघवता सममात्मानमद्य वै
MBh 10.9.55
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनः
इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः
प्राणानुदसृजद्वीरः सुहृदां शोकमादधत्
MBh 10.9.56
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम्
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्
MBh 10.9.57
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम्
प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति
MBh 10.9.58
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै
MBh 10.9.59
वैशंपायन उवाच
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sauptika-Parva chapter-index (18 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sauptika-Parva Ch 8
- Next chapter · Sauptika-Parva Ch 10 →
Sources and Connected Readings
Continue from these 59 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 10.9local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷