🪷 Mahābhārata · Sauptika-Parva · Chapter 10

The Book of the Sleeping Warriors · Parva 10 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 10.10.1
वैशंपायन उवाच तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः शशंस धर्मराजाय सौप्तिके कदनं कृतम्
MBh 10.10.2
द्रौपदेया महाराज द्रुपदस्यात्मजैः सह प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके
MBh 10.10.3
कृतवर्मणा नृशंसेन गौतमेन कृपेण च अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि
MBh 10.10.4
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम्
MBh 10.10.5
छिद्यमानस्य महतो वनस्येव परश्वधैः शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत
MBh 10.10.6
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते मुक्तः कथंचिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः
MBh 10.10.7
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः
MBh 10.10.8
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ
MBh 10.10.9
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः
MBh 10.10.10
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः जीयमाना जयन्त्यन्ये जयमाना वयं जिताः
MBh 10.10.11
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्
MBh 10.10.12
अनर्थो ह्यर्थसंकाशस्तथार्थोऽनर्थदर्शनः जयोऽयमजयाकारो जयस्तस्मात्पराजयः
MBh 10.10.13
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः कथं मन्येत विजयं ततो जिततरः परैः
MBh 10.10.14
येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः
MBh 10.10.15
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः
MBh 10.10.16
क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः
MBh 10.10.17
रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम् शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम्
MBh 10.10.18
संग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् ये तेरुरुच्चावचशस्त्रनौभि;स्ते राजपुत्रा निहताः प्रमादात्
MBh 10.10.19
न हि प्रमादात्परमोऽस्ति कश्चि;द्वधो नराणामिह जीवलोके प्रमत्तमर्था हि नरं समन्ता;त्त्यजन्त्यनर्थाश्च समाविशन्ति
MBh 10.10.20
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम्
MBh 10.10.21
महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात्
MBh 10.10.22
न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा पश्याप्रमादेन निहत्य शत्रू;न्सर्वान्महेन्द्रं सुखमेधमानम्
MBh 10.10.23
इन्द्रोपमान्पार्थिवपुत्रपौत्रा;न्पश्याविशेषेण हतान्प्रमादात् तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः अमर्षितैर्ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः
MBh 10.10.24
कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् ध्रुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः
MBh 10.10.25
तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम् पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन
MBh 10.10.26
इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम्
MBh 10.10.27
माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः
MBh 10.10.28
प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः रोरूयमाणः प्रययौ सुताना;मायोधनं भूतगणानुकीर्णम्
MBh 10.10.29
स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च भूमौ शयानान्रुधिरार्द्रगात्रा;न्विभिन्नभग्नापहृतोत्तमाङ्गान्
MBh 10.10.30
स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसंज्ञः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.10local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷