🪷 Mahābhārata · Sauptika-Parva · Chapter 8

The Book of the Sleeping Warriors · Parva 10 · 151 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 151 Shlokas

MBh 10.8.1
धृतराष्ट्र उवाच तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम्
MBh 10.8.2
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ असह्यमिति वा मत्वा न निवृत्तौ महारथौ
MBh 10.8.3
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् दुर्योधनस्य पदवीं गतौ परमिकां रणे
MBh 10.8.4
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय
MBh 10.8.5
संजय उवाच तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम्
MBh 10.8.6
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्
MBh 10.8.7
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः
MBh 10.8.8
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् यथा न कश्चिदपि मे जीवन्मुच्येत मानवः
MBh 10.8.9
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः
MBh 10.8.10
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्
MBh 10.8.11
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः
MBh 10.8.12
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्
MBh 10.8.13
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते
MBh 10.8.14
तं शयानं महात्मानं विस्रब्धमकुतोभयम् प्राबोधयत पादेन शयनस्थं महीपते
MBh 10.8.15
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम्
MBh 10.8.16
तमुत्पतन्तं शयनादश्वत्थामा महाबलः केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले
MBh 10.8.17
स बलात्तेन निष्पिष्टः साध्वसेन च भारत निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा
MBh 10.8.18
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः नदन्तं विस्फुरन्तं च पशुमारममारयत्
MBh 10.8.19
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर
MBh 10.8.20
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् आचार्यघातिनां लोका न सन्ति कुलपांसन तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते
MBh 10.8.21
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः
MBh 10.8.22
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः
MBh 10.8.23
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात्
MBh 10.8.24
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम्
MBh 10.8.25
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली
MBh 10.8.26
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा
MBh 10.8.27
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत
MBh 10.8.28
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन्
MBh 10.8.29
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै
MBh 10.8.30
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति
MBh 10.8.31
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत्
MBh 10.8.32
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके
MBh 10.8.33
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा तथैव मारयामास विनर्दन्तमरिंदमम्
MBh 10.8.34
युधामन्युस्तु संप्राप्तो मत्त्वा तं रक्षसा हतम् गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्
MBh 10.8.35
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् विस्फुरन्तं च पशुवत्तथैवैनममारयत्
MBh 10.8.36
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् स्फुरतो वेपमानांश्च शमितेव पशून्मखे
MBh 10.8.37
ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् भागशो विचरन्मार्गानसियुद्धविशारदः
MBh 10.8.38
तथैव गुल्मे संप्रेक्ष्य शयानान्मध्यगौल्मिकान् श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत्
MBh 10.8.39
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः
MBh 10.8.40
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत्
MBh 10.8.41
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः अमानुष इवाकारो बभौ परमभीषणः
MBh 10.8.42
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः
MBh 10.8.43
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्
MBh 10.8.44
स घोररूपो व्यचरत्कालवच्छिबिरे ततः अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान्
MBh 10.8.45
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत्
MBh 10.8.46
ततस्तेन निनादेन संप्रबुद्धाः प्रभद्रकाः शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन्
MBh 10.8.47
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान्
MBh 10.8.48
ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन् अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे
MBh 10.8.49
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली
MBh 10.8.50
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि
MBh 10.8.51
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्
MBh 10.8.52
सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत्
MBh 10.8.53
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्
MBh 10.8.54
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः
MBh 10.8.55
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम्
MBh 10.8.56
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना स हतो न्यपतद्भूमौ विमूढो विकृताननः
MBh 10.8.57
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्
MBh 10.8.58
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत्
MBh 10.8.59
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः अहनत्सर्वतो वीरं नानाप्रहरणैर्बली शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत्
MBh 10.8.60
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना
MBh 10.8.61
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत्
MBh 10.8.62
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः
MBh 10.8.63
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः
MBh 10.8.64
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम्
MBh 10.8.65
ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान्
MBh 10.8.66
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा
MBh 10.8.67
यतः प्रवृत्तः संग्रामः कुरुपाण्डवसेनयोः ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च
MBh 10.8.68
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान्
MBh 10.8.69
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः
MBh 10.8.70
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः
MBh 10.8.71
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः
MBh 10.8.72
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो
MBh 10.8.73
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् एवं तेषां तदा द्रौणिरन्तकः समपद्यत
MBh 10.8.74
अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः
MBh 10.8.75
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे
MBh 10.8.76
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम्
MBh 10.8.77
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम्
MBh 10.8.78
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् शूरान्संपततश्चान्यान्कालरात्र्यै न्यवेदयत्
MBh 10.8.79
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः
MBh 10.8.80
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा तेन चाकाशवर्णेन तदाचरत सोऽसिना
MBh 10.8.81
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः
MBh 10.8.82
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः
MBh 10.8.83
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च
MBh 10.8.84
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः
MBh 10.8.85
बन्धनानि च राजेन्द्र संछिद्य तुरगा द्विपाः समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्
MBh 10.8.86
तत्र केचिन्नरा भीता व्यलीयन्त महीतले तथैव तान्निपतितानपिंषन्गजवाजिनः
MBh 10.8.87
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम
MBh 10.8.88
स शब्दः प्रेरितो राजन्भूतसंघैर्मुदा युतैः अपूरयद्दिशः सर्वा दिवं चापि महास्वनः
MBh 10.8.89
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम्
MBh 10.8.90
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः
MBh 10.8.91
तस्मिंस्तमसि संजाते प्रमूढाः सर्वतो जनाः नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च
MBh 10.8.92
गजा गजानतिक्रम्य निर्मनुष्या हया हयान् अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत
MBh 10.8.93
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् न्यपातयन्त च परान्पातयित्वा तथापिषन्
MBh 10.8.94
विचेतसः सनिद्राश्च तमसा चावृता नराः जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः
MBh 10.8.95
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः
MBh 10.8.96
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः
MBh 10.8.97
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः
MBh 10.8.98
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत्
MBh 10.8.99
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः
MBh 10.8.100
तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः
MBh 10.8.101
विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम्
MBh 10.8.102
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः
MBh 10.8.103
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्
MBh 10.8.104
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्
MBh 10.8.105
कांश्चिदापततो वीरानपरांश्च प्रधावतः व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान्
MBh 10.8.106
कांश्चिद्योधान्स खड्गेन मध्ये संछिद्य वीर्यवान् अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत्
MBh 10.8.107
विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः पतितैरभवत्कीर्णा मेदिनी भरतर्षभ
MBh 10.8.108
मानुषाणां सहस्रेषु हतेषु पतितेषु च उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन्
MBh 10.8.109
सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत
MBh 10.8.110
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्
MBh 10.8.111
मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः
MBh 10.8.112
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् तमसा रजनी घोरा बभौ दारुणदर्शना
MBh 10.8.113
किंचित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः बहुना च गजाश्वेन भूरभूद्भीमदर्शना
MBh 10.8.114
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन्भुवि
MBh 10.8.115
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे
MBh 10.8.116
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम्
MBh 10.8.117
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः
MBh 10.8.118
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः
MBh 10.8.119
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः इति लालप्यमानाः स्म शेरते बहवो जनाः
MBh 10.8.120
स्तनतां च मनुष्याणामपरेषां च कूजताम् ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्
MBh 10.8.121
शोणितव्यतिषिक्तायां वसुधायां च भूमिप तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत
MBh 10.8.122
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा
MBh 10.8.123
अन्योन्यं संपरिष्वज्य शयानान्द्रवतोऽपरान् संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्
MBh 10.8.124
दह्यमाना हुताशेन वध्यमानाश्च तेन ते परस्परं तदा योधा अनयन्यमसादनम्
MBh 10.8.125
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्
MBh 10.8.126
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्
MBh 10.8.127
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः खादन्तो नरमांसानि पिबन्तः शोणितानि च
MBh 10.8.128
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः
MBh 10.8.129
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः
MBh 10.8.130
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्
MBh 10.8.131
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्
MBh 10.8.132
मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः परमांसानि खादन्तः क्रव्यादा मांसजीविनः
MBh 10.8.133
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः
MBh 10.8.134
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च रक्षसां घोररूपाणां महतां क्रूरकर्मणाम्
MBh 10.8.135
मुदितानां वितृप्तानां तस्मिन्महति वैशसे समेतानि बहून्यासन्भूतानि च जनाधिप
MBh 10.8.136
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः पाणिना सह संश्लिष्ट एकीभूत इव प्रभो
MBh 10.8.137
स निःशेषानरीन्कृत्वा विरराज जनक्षये युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः
MBh 10.8.138
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः
MBh 10.8.139
यथैव संसुप्तजने शिबिरे प्राविशन्निशि तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः
MBh 10.8.140
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां संगम्य वीर्यवान् आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो
MBh 10.8.141
तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान्
MBh 10.8.142
एवंविधा हि सा रात्रिः सोमकानां जनक्षये प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा
MBh 10.8.143
असंशयं हि कालस्य पर्यायो दुरतिक्रमः तादृशा निहता यत्र कृत्वास्माकं जनक्षयम्
MBh 10.8.144
धृतराष्ट्र उवाच प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः
MBh 10.8.145
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि
MBh 10.8.146
संजय उवाच तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन असांनिध्याद्धि पार्थानां केशवस्य च धीमतः
MBh 10.8.147
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः
MBh 10.8.148
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः
MBh 10.8.149
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम्
MBh 10.8.150
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः सोमका मत्स्यशेषाश्च सर्वे विनिहता मया
MBh 10.8.151
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् यदि जीवति नो राजा तस्मै शंसामहे प्रियम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 151 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.8local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷