🪷 Mahābhārata · Sauptika-Parva · Chapter 7
The Book of the Sleeping Warriors · Parva 10 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 66 Shlokas
MBh 10.7.1
संजय उवाच
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते
अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः
MBh 10.7.2
द्रौणिरुवाच
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्
गिरिशं वरदं देवं भवं भावनमव्ययम्
MBh 10.7.3
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
MBh 10.7.4
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम्
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्
MBh 10.7.5
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम्
MBh 10.7.6
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम्
विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम्
MBh 10.7.7
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च
व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम्
MBh 10.7.8
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्
गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम्
MBh 10.7.9
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्
तनुवाससमत्युग्रमुमाभूषणतत्परम्
MBh 10.7.10
परं परेभ्यः परमं परं यस्मान्न विद्यते
इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम्
MBh 10.7.11
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम्
प्रपद्ये शरणं देवं परमेण समाधिना
MBh 10.7.12
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम्
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्
MBh 10.7.13
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः
पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः
MBh 10.7.14
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत
द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन्
MBh 10.7.15
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः
द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः
MBh 10.7.16
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा
MBh 10.7.17
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च
महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः
MBh 10.7.18
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा
MBh 10.7.19
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा
MBh 10.7.20
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च
पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः
MBh 10.7.21
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः
MBh 10.7.22
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप
MBh 10.7.23
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः
MBh 10.7.24
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः
MBh 10.7.25
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलंकृताः
MBh 10.7.26
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः
MBh 10.7.27
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः
भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत
MBh 10.7.28
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः
MBh 10.7.29
महापाशोद्यतकरास्तथा लगुडपाणयः
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः
महासर्पाङ्गदधराश्चित्राभरणधारिणः
MBh 10.7.30
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च
MBh 10.7.31
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान्
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः
MBh 10.7.32
गायमानास्तथैवान्ये नृत्यमानास्तथापरे
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः
MBh 10.7.33
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः
MBh 10.7.34
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः
MBh 10.7.35
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः
MBh 10.7.36
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः
चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः
MBh 10.7.37
अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः
विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः
MBh 10.7.38
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले
MBh 10.7.39
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्
ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः
MBh 10.7.40
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः
MBh 10.7.41
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम्
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः
MBh 10.7.42
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्
MBh 10.7.43
पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा
चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा
MBh 10.7.44
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः
MBh 10.7.45
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः
सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः
MBh 10.7.46
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः
संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः
MBh 10.7.47
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः
MBh 10.7.48
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः
भीमोग्रपरिघालातशूलपट्टिशपाणयः
घोररूपाः समाजग्मुर्भूतसंघाः समन्ततः
MBh 10.7.49
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्
तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः
MBh 10.7.50
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्
स्वयमेवात्मनात्मानमुपहारमुपाहरत्
MBh 10.7.51
धनूंषि समिधस्तत्र पवित्राणि शिताः शराः
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि
MBh 10.7.52
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्
उपहारं महामन्युरथात्मानमुपाहरत्
MBh 10.7.53
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः
MBh 10.7.54
इममात्मानमद्याहं जातमाङ्गिरसे कुले
अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम्
MBh 10.7.55
भवद्भक्त्या महादेव परमेण समाधिना
अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः
MBh 10.7.56
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै
गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति
MBh 10.7.57
सर्वभूताशय विभो हविर्भूतमुपस्थितम्
प्रतिगृहाण मां देव यद्यशक्याः परे मया
MBh 10.7.58
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम्
संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत्
MBh 10.7.59
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव
MBh 10.7.60
सत्यशौचार्जवत्यागैस्तपसा नियमेन च
क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा
MBh 10.7.61
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते
MBh 10.7.62
कुर्वता तस्य संमानं त्वां च जिज्ञासता मया
पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः
MBh 10.7.63
कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्
MBh 10.7.64
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम्
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम्
MBh 10.7.65
अथाविष्टो भगवता भूयो जज्वाल तेजसा
वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा
MBh 10.7.66
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन्
अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sauptika-Parva chapter-index (18 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sauptika-Parva Ch 6
- Next chapter · Sauptika-Parva Ch 8 →
Sources and Connected Readings
Continue from these 66 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 10.7local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷