🪷 Mahābhārata · Sauptika-Parva · Chapter 6

The Book of the Sleeping Warriors · Parva 10 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 10.6.1
धृतराष्ट्र उवाच द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ अकुर्वतां भोजकृपौ किं संजय वदस्व मे
MBh 10.6.2
संजय उवाच कृतवर्माणमामन्त्र्य कृपं च स महारथम् द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्
MBh 10.6.3
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम्
MBh 10.6.4
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्
MBh 10.6.5
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्
MBh 10.6.6
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् नयनानां सहस्रैश्च विचित्रैरभिभूषितम्
MBh 10.6.7
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः
MBh 10.6.8
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः
MBh 10.6.9
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः
MBh 10.6.10
तदत्यद्भुतमालोक्य भूतं लोकभयंकरम् द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्
MBh 10.6.11
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् उदधेरिव वार्योघान्पावको वडवामुखः
MBh 10.6.12
अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान् रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव
MBh 10.6.13
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता
MBh 10.6.14
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्
MBh 10.6.15
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा स तदासाद्य भूतं वै विलयं तूलवद्ययौ
MBh 10.6.16
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्
MBh 10.6.17
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः
MBh 10.6.18
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन्
MBh 10.6.19
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ
MBh 10.6.20
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते
MBh 10.6.21
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च
MBh 10.6.22
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा
MBh 10.6.23
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् अमार्गेणैवमारभ्य घोरामापदमागतः
MBh 10.6.24
तां चापदं घोरतरां प्रवदन्ति मनीषिणः यदुद्यम्य महत्कृत्यं भयादपि निवर्तते
MBh 10.6.25
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते
MBh 10.6.26
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते
MBh 10.6.27
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः यदारभ्य क्रियां कांचिद्भयादिह निवर्तते
MBh 10.6.28
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् न हि द्रोणसुतः संख्ये निवर्तेत कथंचन
MBh 10.6.29
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् न चैतदभिजानामि चिन्तयन्नपि सर्वथा
MBh 10.6.30
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते
MBh 10.6.31
तदिदं दैवविहितं मम संख्ये निवर्तनम् नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन
MBh 10.6.32
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् दैवदण्डमिमं घोरं स हि मे नाशयिष्यति
MBh 10.6.33
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् कपालमालिनं रुद्रं भगनेत्रहरं हरम्
MBh 10.6.34
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.6local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷