🪷 Mahābhārata · Sauptika-Parva · Chapter 5

The Book of the Sleeping Warriors · Parva 10 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 10.5.1
कृप उवाच शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः
MBh 10.5.2
तथैव तावन्मेधावी विनयं यो न शिक्षति न च किंचन जानाति सोऽपि धर्मार्थनिश्चयम्
MBh 10.5.3
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत्
MBh 10.5.4
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम्
MBh 10.5.5
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते
MBh 10.5.6
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति
MBh 10.5.7
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् प्राज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः
MBh 10.5.8
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना कुरु मे वचनं तात येन पश्चान्न तप्यसे
MBh 10.5.9
न वधः पूज्यते लोके सुप्तानामिह धर्मतः तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्
MBh 10.5.10
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः विमुक्तमूर्धजा ये च ये चापि हतवाहनाः
MBh 10.5.11
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः
MBh 10.5.12
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे
MBh 10.5.13
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम्
MBh 10.5.14
त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौ प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्
MBh 10.5.15
असंभावितरूपं हि त्वयि कर्म विगर्हितम् शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम
MBh 10.5.16
अश्वत्थामोवाच एवमेतद्यथात्थ त्वमनुशास्मीह मातुल तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः
MBh 10.5.17
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः
MBh 10.5.18
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना
MBh 10.5.19
तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधः शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना
MBh 10.5.20
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे क्रोशतां भूमिपालानां युयुधानेन पातितः
MBh 10.5.21
दुर्योधनश्च भीमेन समेत्य गदया मृधे पश्यतां भूमिपालानामधर्मेण निपातितः
MBh 10.5.22
एकाकी बहुभिस्तत्र परिवार्य महारथैः अधर्मेण नरव्याघ्रो भीमसेनेन पातितः
MBh 10.5.23
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति
MBh 10.5.24
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति
MBh 10.5.25
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके कामं कीटः पतंगो वा जन्म प्राप्य भवामि वै
MBh 10.5.26
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्
MBh 10.5.27
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्
MBh 10.5.28
संजय उवाच एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान्
MBh 10.5.29
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्
MBh 10.5.30
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ समदुःखसुखौ चैव नावां शङ्कितुमर्हसि
MBh 10.5.31
अश्वत्थामा तु संक्रुद्धः पितुर्वधमनुस्मरन् ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम्
MBh 10.5.32
हत्वा शतसहस्राणि योधानां निशितैः शरैः न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः
MBh 10.5.33
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा
MBh 10.5.34
कथं च निहतः पापः पाञ्चालः पशुवन्मया शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः
MBh 10.5.35
क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ समास्थाय प्रतीक्षेतां रथवर्यौ परंतपौ
MBh 10.5.36
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः
MBh 10.5.37
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः
MBh 10.5.38
ययुश्च शिबिरं तेषां संप्रसुप्तजनं विभो द्वारदेशं तु संप्राप्य द्रौणिस्तस्थौ रथोत्तमे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.5local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷