🪷 Mahābhārata · Sauptika-Parva · Chapter 4
The Book of the Sleeping Warriors · Parva 10 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 10.4.1
कृप उवाच
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत
न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम्
MBh 10.4.2
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः
MBh 10.4.3
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः
परानभिमुखं यान्तं रथावास्थाय दंशितौ
MBh 10.4.4
आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्
MBh 10.4.5
शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम्
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्
MBh 10.4.6
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद
समेत्य समरे शत्रून्वधिष्यसि न संशयः
MBh 10.4.7
न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम्
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः
MBh 10.4.8
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्
MBh 10.4.9
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्
MBh 10.4.10
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः
MBh 10.4.11
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्
MBh 10.4.12
अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम
अनुयास्याव सहितौ धन्विनौ परतापिनौ
रथिनं त्वरया यान्तं रथावास्थाय दंशितौ
MBh 10.4.13
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे
ततः कर्तासि शत्रूणां युध्यतां कदनं महत्
MBh 10.4.14
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि
विहरस्व यथा शक्रः सूदयित्वा महासुरान्
MBh 10.4.15
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः
MBh 10.4.16
मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्
MBh 10.4.17
न चाहं समरे तात कृतवर्मा तथैव च
अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित्
MBh 10.4.18
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्
MBh 10.4.19
सर्वोपायैः सहायास्ते प्रभाते वयमेव हि
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ
MBh 10.4.20
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने
MBh 10.4.21
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः
MBh 10.4.22
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्
MBh 10.4.23
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति
MBh 10.4.24
यथा च निहतः पापैः पिता मम विशेषतः
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति
MBh 10.4.25
कथं हि मादृशो लोके मुहूर्तमपि जीवति
द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम्
MBh 10.4.26
दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे
स मे पितृवधाद्वध्यः पाञ्चाला ये च संगताः
MBh 10.4.27
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्
MBh 10.4.28
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः
MBh 10.4.29
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम्
MBh 10.4.30
वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान्
अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल
MBh 10.4.31
न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथंचन
न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत्
इति मे निश्चिता बुद्धिरेषा साधुमता च मे
MBh 10.4.32
वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः
पाण्डवानां च विजयो हृदयं दहतीव मे
MBh 10.4.33
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sauptika-Parva chapter-index (18 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sauptika-Parva Ch 3
- Next chapter · Sauptika-Parva Ch 5 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 10.4local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷