🪷 Mahābhārata · Sauptika-Parva · Chapter 3
The Book of the Sleeping Warriors · Parva 10 · 35 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 10.3local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 35 Shlokas
MBh 10.3.1
[स]
कृपस्य वचनं शरुत्वा धर्मार्थसहितं शुभम
अश्वत्थामा महाराज दुःखशॊकसमन्वितः
MBh 10.3.2
दह्यमानस तु शॊकेन परदीप्तेनाग्निना यथा
करूरं मनस ततः कृत्वा ताव उभौ परत्यभाषत
MBh 10.3.3
पुरुषे पुरुषे बुद्धिः सा सा भवति शॊभना
तुष्यन्ति च पृथक सर्वे परज्ञया ते सवया सवया
MBh 10.3.4
सर्वॊ हि मन्यते लॊक आत्मानं बुद्धिमत्तरम
सर्वस्यात्मा बहुमतः सर्वात्मानं परशंसति
MBh 10.3.5
सर्वस्य हि सवका परज्ञा साधुवादे परतिष्ठिता
परबुद्धिं च निन्दन्ति सवां परशंसन्ति चासकृत
MBh 10.3.6
कारणान्तर यॊगेन यॊगे येषां समा मतिः
ते ऽनयॊन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत
MBh 10.3.7
तस्यैव तु मनुष्यस्य सा सा बुद्धिस तदा तदा
कालयॊगविपर्यासं पराप्यान्यॊन्यं विपद्यते
MBh 10.3.8
अचिन्त्यत्वाद धि चित्तानां मनुष्याणां विशेषतः
चित्तवैकल्यम आसाद्य सा सा बुद्धिः परजायते
MBh 10.3.9
यथा हि वैद्यः कुशलॊ जञात्वा वयाधिं यथाविधि
भेषजं कुरुते यॊगात परशमार्थम इहाभिभॊ
MBh 10.3.10
एवं कार्यस्य यॊगार्थं बुद्धिं कुर्वन्ति मानवाः
परज्ञया हि सवया युक्तास तां च निन्दति मानवाः
MBh 10.3.11
अन्यया यौवने मर्त्यॊ बुद्ध्या भवति मॊहितः
मध्ये ऽनयया जरायां तु सॊ ऽनयां रॊचयते मतिम
MBh 10.3.12
वयसनं वा पुनर घॊरं समृद्धिं वापि तादृशीम
अवाप्य पुरुषॊ भॊज कुरुते बुद्धिवैकृतम
MBh 10.3.13
एकस्मिन्न एव पुरुषे सा सा बुद्धिस तदा तदा
भवत्य अनित्य परज्ञत्वात सा तस्यैव न रॊचते
MBh 10.3.14
निश्चित्य तु यथा परज्ञं यां मतिं साधु पश्यति
तस्यां परकुरुते भावं सा तस्यॊद्यॊग कारिका
MBh 10.3.15
सर्वॊ हि पुरुषॊ भॊज साध्व एतद इति निश्चितः
कर्तुम आरभते परीतॊ मरणादिषु कर्मसु
MBh 10.3.16
सर्वे हि युक्तिं विज्ञाय परज्ञां चापि सवकां नराः
चेष्टन्ते विविधाश चेष्टा हितम इत्य एव जानते
MBh 10.3.17
उपजाता वयसनजा येयम अद्य मतिर मम
युवयॊस तां परवक्ष्यामि मम शॊकविनाशिनीम
MBh 10.3.18
परजापतिः परजाः सृष्ट्वा कर्म तासु विधाय च
वर्णे वर्णे समाद्धत्त एकैकं गुणवत्तरम
MBh 10.3.19
बराह्मणे दमम अव्यग्रं कषत्रिये तेज उत्तमम
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम
MBh 10.3.20
अदान्तॊ बराह्मणॊ ऽसाधुर निस्तेजाः कषत्रियॊ ऽधमः
अदक्षॊ निन्द्यते वैश्यः शूद्रश च परतिकूलवान
MBh 10.3.21
सॊ ऽसमि जातः कुले शरेष्ठे बराह्मणानां सुपूजिते
मन्दभाग्यतयास्म्य एतं कषत्रधर्मम अनु षठितः
MBh 10.3.22
कषत्रधर्मं विदित्वाहं यदि बराह्मण्य असंश्रितम
परकुर्यां सुमहत कर्म न मे तत साधु संमतम
MBh 10.3.23
धारयित्वा धनुर विद्यं दिव्यान्य अस्त्राणि चाहवे
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि
MBh 10.3.24
सॊ ऽहम अद्य यथाकामं कषत्रधर्मम उपास्य तम
गन्तास्मि पदवीं राज्ञः पितुश चापि महाद्युतेः
MBh 10.3.25
अद्य सवप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः
विमुक्तयुग्य कवचा हर्षेण च समन्विताः
वयं जिता मताश चैषां शरान्ता वयायम अनेन च
MBh 10.3.26
तेषां निशि परसुप्तानां सवस्थानां शिबिरे सवके
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम
MBh 10.3.27
तान अवस्कन्द्य शिबिरे परेतभूतान विचेतसः
सूदयिष्यामि विक्रम्य मघवान इव दानवान
MBh 10.3.28
अद्य तान सहितान सर्वान धृष्टद्युम्नपुरॊगमान
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः
निहत्य चैव पाञ्चालाञ शान्तिं लब्धास्मि सत्तम
MBh 10.3.29
पाञ्चालेषु चरिष्यामि सूदयन्न अद्य संयुगे
पिनाक पाणिः संक्रुद्धः सवयं रुद्रः पशुष्व इव
MBh 10.3.30
अद्याहं सर्वपाञ्चालान निहत्य च निकृत्य च
अर्दयिष्यामि संक्रुद्धॊ रणे पाण्डुसुतांस तथा
MBh 10.3.31
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम
परहृत्यैकैकशस तेभ्यॊ भविष्याम्य अनृणः पितुः
MBh 10.3.32
दुर्यॊधनस्य कर्णस्य भीष्म सैन्धवयॊर अपि
गमयिष्यामि पाञ्चालान पदवीम अद्य दुर्गमाम
MBh 10.3.33
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि
विरात्रे परमथिष्यामि पशॊर इव शिरॊ बलात
MBh 10.3.34
अद्य पाञ्चाल पाण्डूनां शयितान आत्मजान निशि
खड्गेन निशितेनाजौ परमथिष्यामि गौतम
MBh 10.3.35
अद्य पाञ्चाल सेनां तां निहत्य निशि सौप्तिके
कृतकृत्यः सुखी चैव भविष्यामि महामते
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Sauptika-Parva chapter-index (18 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sauptika-Parva Ch 2
- Next chapter · Sauptika-Parva Ch 4 →
🪷 जय व्यास भगवान् 🪷