🪷 Mahābhārata · Sauptika-Parva · Chapter 18

The Book of the Sleeping Warriors · Parva 10 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 10.18.1
वासुदेव उवाच ततो देवयुगेऽतीते देवा वै समकल्पयन् यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः
MBh 10.18.2
कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च
MBh 10.18.3
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप
MBh 10.18.4
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह
MBh 10.18.5
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः
MBh 10.18.6
लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः
MBh 10.18.7
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन्
MBh 10.18.8
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् आजगामाथ तत्रैव यत्र देवाः समीजिरे
MBh 10.18.9
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे
MBh 10.18.10
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्
MBh 10.18.11
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम्
MBh 10.18.12
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा
MBh 10.18.13
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः
MBh 10.18.14
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले
MBh 10.18.15
अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान् नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन
MBh 10.18.16
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्
MBh 10.18.17
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्
MBh 10.18.18
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः
MBh 10.18.19
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः
MBh 10.18.20
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः
MBh 10.18.21
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये स जलं पावको भूत्वा शोषयत्यनिशं प्रभो
MBh 10.18.22
भगस्य नयने चैव बाहू च सवितुस्तथा प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव
MBh 10.18.23
ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्
MBh 10.18.24
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान्
MBh 10.18.25
ततस्ते निहताः सर्वे तव पुत्रा महारथाः अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः
MBh 10.18.26
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् महादेवप्रसादः स कुरु कार्यमनन्तरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.18local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷