🪷 Mahābhārata · Sauptika-Parva · Chapter 17

The Book of the Sleeping Warriors · Parva 10 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 10.17.1
वैशंपायन उवाच हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्
MBh 10.17.2
कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा द्रौणिना निहताः सर्वे मम पुत्रा महारथाः
MBh 10.17.3
तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः
MBh 10.17.4
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः
MBh 10.17.5
किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः
MBh 10.17.6
वासुदेव उवाच नूनं स देवदेवानामीश्वरेश्वरमव्ययम् जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्
MBh 10.17.7
प्रसन्नो हि महादेवो दद्यादमरतामपि वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्
MBh 10.17.8
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ यानि चास्य पुराणानि कर्माणि विविधान्युत
MBh 10.17.9
आदिरेष हि भूतानां मध्यमन्तश्च भारत विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा
MBh 10.17.10
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्
MBh 10.17.11
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः
MBh 10.17.12
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः स्रष्टारं सर्वभूतानां ससर्ज मनसापरम्
MBh 10.17.13
सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः
MBh 10.17.14
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम्
MBh 10.17.15
स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्
MBh 10.17.16
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा
MBh 10.17.17
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम्
MBh 10.17.18
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्
MBh 10.17.19
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु
MBh 10.17.20
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः
MBh 10.17.21
बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत
MBh 10.17.22
तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव
MBh 10.17.23
किं कृतं सलिले शर्व चिरकालं स्थितेन ते किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम्
MBh 10.17.24
सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै
MBh 10.17.25
तपसाधिगतं चान्नं प्रजार्थं मे पितामह ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः
MBh 10.17.26
एवमुक्त्वा तु संक्रुद्धो जगाम विमना भवः गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.17local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷