🪷 Mahābhārata · Sauptika-Parva · Chapter 16
The Book of the Sleeping Warriors · Parva 10 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 36 Shlokas
MBh 10.16.1
वैशंपायन उवाच
तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा
MBh 10.16.2
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः
उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत्
MBh 10.16.3
परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति
MBh 10.16.4
तस्य तद्वचनं साधोः सत्यमेव भविष्यति
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः
MBh 10.16.5
एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा
द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम्
MBh 10.16.6
नैतदेवं यथात्थ त्वं पक्षपातेन केशव
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा
MBh 10.16.7
पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम्
विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि
MBh 10.16.8
वासुदेव उवाच
अमोघः परमास्त्रस्य पातस्तस्य भविष्यति
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति
MBh 10.16.9
त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः
असकृत्पापकर्माणं बालजीवितघातकम्
MBh 10.16.10
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्
अप्राप्नुवन्क्वचित्कांचित्संविदं जातु केनचित्
MBh 10.16.11
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः
MBh 10.16.12
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः
विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः
MBh 10.16.13
वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च
कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते
MBh 10.16.14
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति
MBh 10.16.15
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते
पश्य मे तपसो वीर्यं सत्यस्य च नराधम
MBh 10.16.16
व्यास उवाच
यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम्
ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम्
MBh 10.16.17
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः
असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः
MBh 10.16.18
अश्वत्थामोवाच
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम्
सत्यवागस्तु भगवानयं च पुरुषोत्तमः
MBh 10.16.19
वैशंपायन उवाच
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्
MBh 10.16.20
पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः
कृष्णद्वैपायनं चैव नारदं च महामुनिम्
MBh 10.16.21
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्
MBh 10.16.22
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह
MBh 10.16.23
अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः
ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम्
MBh 10.16.24
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः
MBh 10.16.25
ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः
प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत्
MBh 10.16.26
अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते
उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर
MBh 10.16.27
प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः
MBh 10.16.28
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च
नैव त्वमपि गोविन्द शममिच्छति राजनि
MBh 10.16.29
उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम्
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि
MBh 10.16.30
हतो दुर्योधनः पापो राज्यस्य परिपन्थकः
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया
MBh 10.16.31
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च
MBh 10.16.32
यशोऽस्य पातितं देवि शरीरं त्ववशेषितम्
वियोजितश्च मणिना न्यासितश्चायुधं भुवि
MBh 10.16.33
द्रौपद्युवाच
केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम
शिरस्येतं मणिं राजा प्रतिबध्नातु भारत
MBh 10.16.34
वैशंपायन उवाच
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि
MBh 10.16.35
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः
शुशुभे स महाराजः सचन्द्र इव पर्वतः
MBh 10.16.36
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी
कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sauptika-Parva chapter-index (18 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sauptika-Parva Ch 15
- Next chapter · Sauptika-Parva Ch 17 →
Sources and Connected Readings
Continue from these 36 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 10.16local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷