🪷 Mahābhārata · Sauptika-Parva · Chapter 15
The Book of the Sleeping Warriors · Parva 10 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 10.15.1
वैशंपायन उवाच
दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ
संजहार शरं दिव्यं त्वरमाणो धनंजयः
MBh 10.15.2
उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा
प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया
MBh 10.15.3
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा
MBh 10.15.4
अत्र यद्धितमस्माकं लोकानां चैव सर्वथा
भवन्तौ देवसंकाशौ तथा संहर्तुमर्हतः
MBh 10.15.5
इत्युक्त्वा संजहारास्त्रं पुनरेव धनंजयः
संहारो दुष्करस्तस्य देवैरपि हि संयुगे
MBh 10.15.6
विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे
न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः
MBh 10.15.7
ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना
न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते
MBh 10.15.8
अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति
MBh 10.15.9
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत्
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत
MBh 10.15.10
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः
गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः
MBh 10.15.11
द्रौणिरप्यथ संप्रेक्ष्य तावृषी पुरतः स्थितौ
न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे
MBh 10.15.12
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत
MBh 10.15.13
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने
MBh 10.15.14
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता
मिथ्याचारेण भगवन्भीमसेनेन संयुगे
MBh 10.15.15
अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना
तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे
MBh 10.15.16
विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम्
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै
MBh 10.15.17
तदिदं पाण्डवेयानामन्तकायाभिसंहितम्
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति
MBh 10.15.18
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे
MBh 10.15.19
व्यास उवाच
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनंजयः
उत्सृष्टवान्न रोषेण न वधाय तवाहवे
MBh 10.15.20
अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्
MBh 10.15.21
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनंजयः
MBh 10.15.22
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि
MBh 10.15.23
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति
MBh 10.15.24
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः
न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया
MBh 10.15.25
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज
MBh 10.15.26
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति
MBh 10.15.27
मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति
एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः
MBh 10.15.28
द्रौणिरुवाच
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम्
अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते
MBh 10.15.29
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम्
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथंचन
MBh 10.15.30
न च रक्षोगणभयं न तस्करभयं तथा
एवंवीर्यो मणिरयं न मे त्याज्यः कथंचन
MBh 10.15.31
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम्
अयं मणिरयं चाहमिषीका निपतिष्यति
गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम्
MBh 10.15.32
व्यास उवाच
एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम
MBh 10.15.33
वैशंपायन उवाच
ततः परममस्त्रं तदश्वत्थामा भृशातुरः
द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sauptika-Parva chapter-index (18 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sauptika-Parva Ch 14
- Next chapter · Sauptika-Parva Ch 16 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 10.15local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷