🪷 Mahābhārata · Sauptika-Parva · Chapter 1

The Book of the Sleeping Warriors · Parva 10 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 66 Shlokas

MBh 10.1.1
संजय उवाच ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः उपास्तमयवेलायां शिबिराभ्याशमागताः
MBh 10.1.2
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते
MBh 10.1.3
सेनानिवेशमभितो नातिदूरमवस्थिताः निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः
MBh 10.1.4
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्
MBh 10.1.5
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः
MBh 10.1.6
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः
MBh 10.1.7
धृतराष्ट्र उवाच अश्रद्धेयमिदं कर्म कृतं भीमेन संजय यत्स नागायुतप्राणः पुत्रो मम निपातितः
MBh 10.1.8
अवध्यः सर्वभूतानां वज्रसंहननो युवा पाण्डवैः समरे पुत्रो निहतो मम संजय
MBh 10.1.9
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः
MBh 10.1.10
अद्रिसारमयं नूनं हृदयं मम संजय हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा
MBh 10.1.11
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे
MBh 10.1.12
कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्
MBh 10.1.13
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्
MBh 10.1.14
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय येन पुत्रशतं पूर्णमेकेन निहतं मम
MBh 10.1.15
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः अकुर्वता वचस्तेन मम पुत्रेण संजय
MBh 10.1.16
अधर्मेण हते तात पुत्रे दुर्योधने मम कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय
MBh 10.1.17
संजय उवाच गत्वा तु तावका राजन्नातिदूरमवस्थिताः अपश्यन्त वनं घोरं नानाद्रुमलताकुलम्
MBh 10.1.18
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः सूर्यास्तमयवेलायामासेदुः सुमहद्वनम्
MBh 10.1.19
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्
MBh 10.1.20
नानातोयसमाकीर्णं तडागैरुपशोभितम् पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम्
MBh 10.1.21
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः
MBh 10.1.22
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्
MBh 10.1.23
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो
MBh 10.1.24
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे सर्वस्य जगतो धात्री शर्वरी समपद्यत
MBh 10.1.25
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलंकृतम् नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः
MBh 10.1.26
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः
MBh 10.1.27
रात्रिंचराणां सत्त्वानां निनादोऽभूत्सुदारुणः क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी
MBh 10.1.28
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्
MBh 10.1.29
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्
MBh 10.1.30
निद्रया च परीताङ्गा निषेदुर्धरणीतले श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः
MBh 10.1.31
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ सुखोचितावदुःखार्हौ निषण्णौ धरणीतले तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ
MBh 10.1.32
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत नैव स्म स जगामाथ निद्रां सर्प इव श्वसन्
MBh 10.1.33
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम्
MBh 10.1.34
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम्
MBh 10.1.35
तत्र काकसहस्राणि तां निशां पर्यणामयन् सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः
MBh 10.1.36
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम्
MBh 10.1.37
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् सुदीर्घघोणानखरं सुपर्णमिव वेगिनम्
MBh 10.1.38
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत
MBh 10.1.39
संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः
MBh 10.1.40
केषांचिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह चरणांश्चैव केषांचिद्बभञ्ज चरणायुधः
MBh 10.1.41
क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः तेषां शरीरावयवैः शरीरैश्च विशां पते न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत्
MBh 10.1.42
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः
MBh 10.1.43
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि तद्भावकृतसंकल्पो द्रौणिरेको व्यचिन्तयत्
MBh 10.1.44
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः
MBh 10.1.45
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया
MBh 10.1.46
पतंगाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् न्यायतो युध्यमानस्य प्राणत्यागो न संशयः छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान्
MBh 10.1.47
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः
MBh 10.1.48
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता
MBh 10.1.49
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः
MBh 10.1.50
अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः
MBh 10.1.51
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम्
MBh 10.1.52
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत्
MBh 10.1.53
इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान्
MBh 10.1.54
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च
MBh 10.1.55
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत्
MBh 10.1.56
हतो दुर्योधनो राजा एकवीरो महाबलः यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह
MBh 10.1.57
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः पातितो भीमसेनेन एकादशचमूपतिः
MBh 10.1.58
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता
MBh 10.1.59
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन्
MBh 10.1.60
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः अनिलेनेरितो घोरो दिशः पूरयतीव हि
MBh 10.1.61
अश्वानां हेषमाणानां गजानां चैव बृंहताम् सिंहनादश्च शूराणां श्रूयते सुमहानयम्
MBh 10.1.62
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः
MBh 10.1.63
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे
MBh 10.1.64
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम्
MBh 10.1.65
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे
MBh 10.1.66
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 66 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.1local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷