🪷 Mahābhārata · Śalya-Parva · Chapter 64

The Book of Śalya · Parva 9 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 43 Shlokas

MBh 9.64.1
संजय उवाच वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् हतशिष्टास्ततो राजन्कौरवाणां महारथाः
MBh 9.64.2
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः त्वरिता जवनैरश्वैरायोधनमुपागमन्
MBh 9.64.3
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् प्रभग्नं वायुवेगेन महाशालं यथा वने
MBh 9.64.4
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् महागजमिवारण्ये व्याधेन विनिपातितम्
MBh 9.64.5
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् यदृच्छया निपतितं चक्रमादित्यगोचरम्
MBh 9.64.6
महावातसमुत्थेन संशुष्कमिव सागरम् पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्
MBh 9.64.7
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम्
MBh 9.64.8
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा
MBh 9.64.9
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः
MBh 9.64.10
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन्
MBh 9.64.11
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्
MBh 9.64.12
न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः
MBh 9.64.13
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने
MBh 9.64.14
दुःशासनं न पश्यामि नापि कर्णं महारथम् नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ
MBh 9.64.15
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन लोकानां च भवान्यत्र शेते पांसुषु रूषितः
MBh 9.64.16
एष मूर्धावसिक्तानामग्रे गत्वा परंतपः सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्
MBh 9.64.17
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव सा च ते महती सेना क्व गता पार्थिवोत्तम
MBh 9.64.18
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः
MBh 9.64.19
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्
MBh 9.64.20
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः
MBh 9.64.21
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् कृपादीन्स तदा वीरान्सर्वानेव नराधिपः
MBh 9.64.22
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते विनाशः सर्वभूतानां कालपर्यायकारितः
MBh 9.64.23
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः
MBh 9.64.24
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः
MBh 9.64.25
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः
MBh 9.64.26
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम्
MBh 9.64.27
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः
MBh 9.64.28
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात्
MBh 9.64.29
स मया समनुप्राप्तो नास्मि शोच्यः कथंचन कृतं भवद्भिः सदृशमनुरूपमिवात्मनः यतितं विजये नित्यं दैवं तु दुरतिक्रमम्
MBh 9.64.30
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम्
MBh 9.64.31
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये
MBh 9.64.32
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च बाष्पविह्वलया वाचा राजानमिदमब्रवीत्
MBh 9.64.33
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै
MBh 9.64.34
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो इष्टापूर्तेन दानेन धर्मेण सुकृतेन च
MBh 9.64.35
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् अनुज्ञां तु महाराज भवान्मे दातुमर्हति
MBh 9.64.36
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः मनसः प्रीतिजननं कृपं वचनमब्रवीत् आचार्य शीघ्रं कलशं जलपूर्णं समानय
MBh 9.64.37
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत्
MBh 9.64.38
तमब्रवीन्महाराज पुत्रस्तव विशां पते ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्
MBh 9.64.39
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः
MBh 9.64.40
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत्
MBh 9.64.41
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् प्रययौ सिंहनादेन दिशः सर्वा विनादयन्
MBh 9.64.42
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम्
MBh 9.64.43
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप शोकसंविग्नमनसश्चिन्ताध्यानपराभवन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.64local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷